________________
*************
जैन ग्रन्थरत्नाकरे.
नास्पृष्टः कर्म्मभिः शश्वद्विश्वदृश्वास्ति कश्चनः । तस्यानुपायसिद्धस्य सर्वथानुपपतितः ॥ ९ ॥ प्रणीतिर्मोक्षमार्गस्य न विना नादिसिद्धितः । सर्वज्ञादिति तत्सिद्धिर्न परीक्षासहा स हि ॥ १० ॥ प्रणेता मोक्षमार्गस्य नाशरीरोऽन्यमुक्तवत् । सशरीरस्तु नाकर्म्मा सम्भवत्यज्ञनन्तुवत् ॥ ११ ॥ • न चेच्छाशक्तिरीशस्य कर्म्माभावेऽपि युज्यते । तदिच्छावानभिव्यक्ता क्रिया हेतुः कुतोऽज्ञवत् ॥ १२ ॥ ज्ञानशक्त्यैव निःशेषकार्योत्पत्तौ प्रभुः किल । सदेश्वर इति ख्यातेऽनुमानमनिदर्शनम् ॥ १३ ॥ समीहामन्तरेणापि यथा वक्ति जिनेश्वरः । तथेश्वरोऽपि कार्य्याणि कुर्य्यादित्यप्यपेशलम् ॥ १४ ॥ सति घर्म्मविशेषे हि तीर्थकृत्त्वत्समाहूये । ब्रूयाज्जिनेश्वरो मार्गं न ज्ञानादेव केवलात् ॥ ११ ॥ सिद्धस्यापास्तनिःशेषकर्म्मणो वागसम्भवात् । बिना तीर्थकरत्वेन नाना नार्योपदेशता ॥ १६ ॥ तथा धर्म्मविशेषोऽस्य योगश्च यदि शाश्वतः । तदेश्वरस्य देहोऽस्तु योग्यन्तरवदुत्तमः ॥ १७ ॥ विग्रहामुग्रहो देहं स्वं निर्मायान्यदेहिनाम् । करोतीश्वर इत्येतन्न परीक्षाक्षमं वचः ॥ १८ ॥ देहान्तराद्विना तावत्स्वदेहं जनयेद्यदि ॥ तदा प्रकृतकार्येऽपि देहधानमनर्थकम् ॥ १९ ॥