________________
来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来本本本本本末考
来来来来来来来来来来来来来来来来来来来来来来来来来来来来本市未末
आप्तपरीक्षा.
wwwwwwwwwwww इहेति प्रत्ययोऽप्येष शङ्करे न तु खादिषु । इति भेदः कथं सिध्येन्नियामकमपश्यत ॥ ६४ ॥ न चाचेतनता तत्र सम्भाव्येत नियामिका । शम्भावपि तदा स्थानात्खादेस्तदविशेषतः ॥६५॥ नेशो ज्ञाता न चाज्ञाता स्वयं ज्ञानस्य केवलम् । समवायात्सदा ज्ञाता यद्यात्मैव स किं स्वतः ॥ ६६ ॥ नायमात्मा न चानात्मा खात्मत्वसमवायतः। समवायेति चेदेवं द्रव्यमेव स्वतोऽसिधत् ॥ ६७ ॥ नेशो द्रन्यं न चाद्रव्यं द्रव्यत्वसमवायतः । सर्वदा द्रव्यमेवेति यदि सन्नेव स स्वतः ॥ ६८ ॥ न स्वतः सन्नसन्नापि सत्त्वेन समवायतः । सन्नेव शश्वदित्युक्तौ व्याघातः केन वार्यते ॥ ६९ ॥ स्वरूपेणासतः सत्वसमावाये च खाम्बुजे । स स्यात्किन्न विशेषस्याभावात्तस्य ततोऽअसा ॥ ७० ॥ स्वरूपेण सतः सत्त्वसमवायेऽपि सर्वदा । सामान्यादौ भवेत्सत्त्वसमवायो विशेषतः ॥ ७१ ॥ स्वतः सतो यथा सत्त्वसमवायस्तथास्तु सः। द्रव्यत्वात्मत्ववोद्धत्वसमवायोऽपि तत्त्वतः ॥ ७२ ॥ द्रव्यस्यैवात्मनो वोद्धः स्वयं सिद्धस्य सर्वदा । न हि स्वतो तथाभूतस्तथात्वसमवायभाक् ॥ ७३॥
未来来来来来来来来来来来来来来来来来来来来来来来来去去东来东东本东东本法未染未来来来来来来来来来来来来
* १ 'सदात्मैवेति' इत्यपि पाठः । *TRITTARPRIPTIPRITIES