Book Title: Aaptpariksha
Author(s): Lalaram Digambar Jain
Publisher: Lalaram Digambar Jain
View full book text
________________
PPITITIIIITTERT****
求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求求来求求求求求求求求求求求求
sakstakaitikakaitiktakakakakaki
आसपरीक्षा. येनाशेषजगत्यस्य सर्वज्ञस्य निषेधनम् । परोपगमतस्तस्य निषेधे वेष्टवाधनम् ॥ १०७ ॥ मिथ्यैकान्तनिषेधस्तु युक्तोऽनेकान्तसिद्धितः ।। नासर्वज्ञजगत्सिद्धेः सर्वज्ञप्रतिषेधनम् ॥ १०८॥ एवं सिद्धः सुनिर्णेतासम्भवद्वाधकत्वतः । सुखवद्विश्वतत्त्वज्ञः सोऽहन्नेव भवानिह ॥ १०९॥ स कर्मभूभृतां भेत्ता तद्विपक्षप्रकर्षतः । यथा शीतस्य भेत्तेह कश्चिदुष्णप्रकर्षतः ॥ ११० ॥ तेषामागमिनां तावद्विपक्षः संवरो मतः । तपसा सञ्चितानान्तु निर्जरा कर्मभूभृताम् ॥ १११ ॥ तत्प्रकर्षः पुनः सिद्धः परमः परमात्मनि । तारतम्यविशेषस्य सिद्धेरुष्णप्रकर्षवत् ॥ ११२ ॥ कणि द्विविधान्यत्र द्रव्यभावविकल्पतः । द्रव्यकर्माणि जीवस्य पुद्गलात्मन्यनेकधा ॥ ११३ ॥ भावकाणि चैतन्यविवर्त्तात्मनि भाति तु । क्रोधादीनि स्ववेद्यानि कथंचिञ्चिदभेदतः ॥ ११४ ॥ तत्स्कन्धराशयः प्रोक्ता भूमृतोऽत्र समाधितः । जीवाद्विश्लेषणं भेदः सन्तानात्यन्तसंक्षयः ॥ ११५ ॥ स्वास्मलाभस्ततो मोक्षः कृत्स्नकर्मक्षयात्मनः । निर्जरात्संपराभ्यां नुः सर्वसद्वादिनामिह ॥ ११६ ॥ नास्तिकानान्तु नैवास्ति प्रमाणं तन्निराकृतौ ।
प्रलापमात्रकं तेषां न वाधेयं महात्मनाम् ॥ ११७ ॥ *PRINTRPFFFFFFFFERTIFY
不好好好好好科科科科科科科科科科科科科科科科計計計計計計計計計計外*

Page Navigation
1 ... 11 12 13 14 15 16