Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
________________
आगम
(४४)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[१]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [-] /गाथा ||१||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
गम्या तथाऽनन्तरमेव वक्ष्यते, असाधारणगुणोत्कीर्त्तनरूपा च द्विधा-खार्थसम्पदभिधायिनी परार्थसम्पदभिधायिनी च, तत्र स्वार्थसम्पन्नः परार्थ प्रति समर्थों भवतीति प्रथमतः खार्थसम्पदमाह - 'जयति' इन्द्रियविषयकषायघातिकर्म्मपरिषहोपसर्गादिशत्रुगणपरिजयात् सर्वानप्यतिशेते, इत्थं सर्वातिशायी च भगवान् प्रेक्षावतामवश्यं प्रणामाईः ततो जयतीति, किमुक्तं भवति ? - तं प्रति प्रणतोऽस्मीति, किंविशिष्टो जयतीत्याह- 'जगज्जीवयोनिविज्ञायकः' जगद्-धर्माधर्म्माकाशपुद्गलास्तिकायरूपं 'जगद् ज्ञेयं चराचर' मिति वचनात् 'जीवा' इति जीवन्ति - प्राणान् धारयन्तीति जीवाः, कः प्राणान् धारयतीति ? चेत्, उच्यते, यो मिथ्यात्वादिकलुषिततया वेदनीयादिकर्मणामभिनिर्वर्त्तकस्तत्फलस्य च सुखदुःखादेरुपभोक्ता नारकादिभवेषु च यथाकर्म्मविपाकोदयं संसती सम्यग्दर्शनादिरत्नत्रयाभ्यासप्रकर्षवशाञ्चाशेषकम्र्म्माशापगमतः परिनिर्वाता स प्राणान् धारयति स एव चात्मेत्यभिधीयते, उक्तं च--"यः कर्त्ता कर्म्मभेदानां भोक्ता कर्म्मफलस्य च । संसर्त्ता परिनिर्माता, स ह्यात्मा नान्यलक्षणः ॥ १ ॥” कथमेतत्सि - द्विरिति चेत् ?, उच्यते, प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धचैतन्यान्यथाऽनुपपत्तितः, तथाहि —न चैतन्यमिदं भूतानां धर्म्मः, तद्धर्म्मत्वे सति पृथिव्याः काठिन्यस्येव सर्वत्र सर्वदा चोपलम्भप्रसङ्गात् न च सर्वत्र सर्वदा चोपलभ्यते, लोष्ठादी मृतावस्थायां चानुपलम्भात्, अथात्रापि चैतन्यमस्ति केवलं शक्तिरूपेण ततो नोपलभ्यते, तदयुक्तं, विकल्पद्वयानतिक्रमात्, तथाहि - सा शक्तिश्चैतन्याद्विलक्षणा उत चैतन्यमेव १, यदि विलक्षणा तर्हि कथमारव्यते
Eaton Internation
For Pasta Lise Only
~8~
Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 514