Book Title: Aagam 44 NANDISOOTRA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 13
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................ मूलं [-]/गाथा ||१|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ||१|| दीप अनुक्रम दहिनां दृष्टः, किन जन्मान्तरागतिः १ ॥१॥" अथागतिः प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवसीयते ?, नैष दोषः, अनुमेयविषये प्रत्यक्षवृत्तेरनभ्युपगमात्, परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवर्तनमिष्यते ततः कथं स एव दोषः, आह च-"अनुमेयेऽस्ति नाध्यक्षमिति कैवात्र दुष्टता ? । अध्यक्षस्थानुमानस्य, विषयो विषयो न हि ॥१॥" अथ तजातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते ?, न खलु यस्याग्निविषया प्रत्यक्षवृत्तिर्महानसेऽपि नासीत् तस्यान्यत्र क्षितिधरादौ धूमामध्वजानुमानं, तदप्ययुक्तम्, अत्रापि तज्जातीये प्रत्यक्षत्तिभावात्, तथाहि-आग्रहोऽन्यत्र परिशीलनाभ्यासात् प्रवृत्तः प्रत्यक्षत एवोपलब्धः, तदुपष्टम्भेनेहाप्यनुमान प्रवर्तते, उक्तं च-"आग्रहस्तावदभ्यासात, प्रवृत्त उपलभ्यते । अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमा न किम् ? ॥१॥" योऽपि |चित्रदृष्टान्तः प्रागुपन्यस्तः सोऽप्ययुक्तो, वैषम्यात् , तथाहि-चित्रमचेतनं गमनस्वभावरहितं च, आत्मा च चेतनः कर्मवशाद् गन्यागती च कुरुते, ततः कथं दृष्टान्तदान्तिकयोः साम्यम् ?, ततो यथा कश्चिद् देवदत्तो विवक्षिते ग्रामे कतिपयदिनानि गृहीभूत्वा ग्रामान्तरे गृहान्तरमास्थायावतिष्ठते तद्वद् आत्माऽपि विवक्षिते भवे देहं परिहाय भवान्तरे देहान्तरमारचय्यावतिष्ठते, यच्चोक्तं-'संवेदनं देहकार्यमिति, तत्र चाक्षुषादिकं संवेदनं देहाश्रितमपि कथ|ञ्चिद् भवतु, चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसम्भवात्, यत्तु मानसं तत्कथम् ? न हि तद्देहकार्य घटते, युक्त्ययो|गात, तथाहि-तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपाद्वा समुत्पद्यते अनिन्द्रियरूपाहा केशनखादिलक्षणात् ?, ~ 12 ~

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 514