Book Title: Aagam 05 Bhagavati Daanshekhariyaa Vrutti Ang Sutra 5 Part 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 287
________________ आगम (०५) प्रत सूत्राक [८२४ ૮૨૮] दीप अनुक्रम [९९८ १००२] श्रीभग० लघु चौ PİCİSİ-İCİLİGİG “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-२ शतक [३०], वर्ग [-] अंतर-शतक [-] उद्देशक [१-११], मूलं [ ८२४-८२८] अथ त्रिंशमारभ्यते - 'समोसरण 'ति (सू. ८२४) समवसरन्ति नानापरिणामा जीवाः कथञ्चित्तुल्यतयां येषु मतेषु तानि समवसरणानि, 'किरियाबाई'त्ति क्रिया कर्त्तारं विना न सम्भवति सा चात्मसमवायिनीति ये वदन्ति ते क्रियावादिनः, ते चाशीत्यधिकशतं स्थानान्तरादवसेयाः, अन्ये त्वाहु:-क्रियैव प्रधाना, किं ज्ञानेन ? एवमन्यत्रापि, 'अकिरियाबाई' ति अक्रियां-क्रियाया अभाव, नहि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया सम्भवति, तद्भावे चानवस्थितेरभावादिति इदं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुरेके- "क्षणिकाः सर्वसंस्कारा, अस्थितानां कुतः क्रिया । भूतिर्येषां क्रिया सैन, कारकं सैव चोच्यत ॥ १॥" इत्यादि, अन्ये त्याहु:-अक्रियावादिनो ये ब्रुवते किं क्रियया १, चित्तशुद्धिरेव कार्या, ते च बौद्धाः, अन्ये तु व्याख्यान्ति-अक्रियां - जीवादिः पदार्थों | नास्ति इत्यादिकां वदितुं शीलं येषां ते अक्रियावादिनः, ते चात्मादिपदार्थनास्तित्वप्रतिपत्तिलक्षणाचतुरशीतिविकल्पाः स्थानान्तरादवसेयाः, 'अन्नाणियवाद'ति अज्ञानिकवादिनः, ते चाज्ञानमेव श्रेयः असश्चिन्त्यकृतकर्मबन्धवैफल्यात्, तथा ज्ञानं न कस्यापि क्वचिदपि वस्तुन्यस्ति प्रमाणानामसम्पूर्ण वस्तुविषयत्वादिति येऽभ्युपगतवन्तः, ते सप्तषष्टिसङ्ख्याः स्थानान्तरादवसेयाः, 'वेणइयंवाइ'त्तिः वैनयिकवादिनः, विनय एव वैनयिकं तदेव यैः स्वर्गादिहेतुतया वदन्ति इत्येवंशीलास्ते वैनयिकवादिनः, एते चान वधृतलिङ्गाचारशास्त्र विनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः स्थानान्तरादवसेयाः, अत्रार्थे “अस्थिति किरियवाई वयंति नत्थितिकिरियंवाईओ अन्नाणिय अन्नाणं वेणइया विणयवार्यति ॥ १॥" एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टय उक्ताः तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः सम्यस्थितवादिनामेव तेषां समाश्रयणादिति । 'जीवा णं'ति तत्र जीवाश्चतुविधा अपि तथा स्वभावात 'अले| स्सा-णं ति अलेश्याः अयोगिनः सिद्धाश्र, ते च क्रियावादिन एव, क्रियावादहेतुभूतयथावस्थितद्रव्यपर्यायरूपार्थपरिच्छेदयुक्त "குட் ம मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः ... अत्र शतक ३० आरभ्यते 287~ ३० शु० १ उद्देशः

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305