Page #1
--------------------------------------------------------------------------
________________
ऑगस्ट २०११
उपा. श्रीगुणविनयजी गणि कृत बे अप्रगट स्तुतिटीका
६५
-सं. मुनिसुजसचन्द्र - सुयशचन्द्रविजयौ
भक्तिमार्गने पुष्ट करवा माटे पूर्वाचार्योए विविध प्रकारनां अनुष्ठानो आपणने बताड्यां छे. तेना मुख्य भेद द्रव्यपूजा अने भावपूजा. अहीं ए बे पूजा प्रकारमाथी प्रभुसन्मुख देवनन्दनस्वरूप भावपूजामां बोलाती ४ स्तुति (थोई) ना जोटारूप २ अप्रगट स्तुतिनी टीका जोईशुं ।
स्तुतिनुं स्वरूप :
अहिगयजिण पढमथुई, बीया सव्वाण तइअ नाणस्स । वेयावच्चगराणं, उवोअगत्थं चउत्थ थुई ॥१॥
चैत्यवन्दन भाष्यनी उपरोक्त गाथामां पूर्वाचार्य महर्षि स्तुतिरचनानुं बंधारण समजावे छे. सामान्यथी प्रथम स्तुति कर्ताना इष्टदेवनी, बीजी सर्व सामान्ये जिननी, त्रीजी श्रुतज्ञाननी अने चोथी वैयावच्च करनार देवी - देवतानी थाय छे.
कृति परिचय :
प्रस्तुत कृतिद्वयमां कविए पूर्वाचार्यमहर्षिनी उपरोक्त वात ध्यानमां राखी कृतिनी रचना करी छे. प्रथम कृतिमां इष्टदेवनी स्तुति करता कविए विविध तीर्थोना अधिपति जिनेश्वर परमात्मानी स्तुति करी छे. टीकाकार श्रीए अहिं स्तम्भनपार्श्वनाथ प्रभुनी स्तुतिटीका करता 'खरतरगगनाङ्गणमणिकरणि (किरण?) श्रीमदभयदेवसूरिप्रकटीकृतं' ए पद द्वारा नवाङ्गीवृत्तिकार श्रीअभयदेवसूरिजीने पोताना गच्छना जणाववानो प्रयत्न कर्यो छे. जोके पुण्यविजयजी म. जेवा श्रेष्ठ विद्वानोना मते तो नवाङ्गीवृत्तिकार श्रीअभयदेवसूरि म.सा. चन्द्रगच्छना ज छे. आ बाबतने पुष्ट करतो एक धातु प्रतिमानो अप्रगट लेख अहीं रजू कर्यो छे. जेमां पण अभयदेवसूरिजी माटे 'चन्द्रगच्छे नवाङ्गवृत्तिकार' ए विशेषण वापर्युं छे.
संवत् १२९१ वर्षे आसाढ वदि ८ शुक्रे श्री श्रीमालज्ञातीय श्रे० आसु
Page #2
--------------------------------------------------------------------------
________________
६६
अनुसन्धान-५६
सुत पारि० कुंअरसिंहेन निज भगिनी तूदा श्रेयोर्थं बिम्बं कारितं प्रतिष्ठितं श्री चन्द्रगच्छे नवाङ्गवृत्तिकार श्रीअभयदेवसूरिसन्ताने श्रीमुनिचन्द्रसूरिभिः ॥ बीजी कृतिमां कविए अढी द्वीपमा रहेला भावार्हन्तोने नमस्कार कर्या छे. सामान्यजिनस्तुति ए रीते ओळखाती बीजी स्तुति करता कविए बन्ने कृतिमां शाश्वत अने अशाश्वत जिननी स्तुति करी छे.
श्रुतनी आराधनारूप त्रीजी स्तुतिमां कविए परमात्मानी वाणीनी अद्भुत स्तुति करी छे. प्रथम कृतिमां कविए द्वादशाङ्गीने नदीनी उपमा सुन्दर रीते घटावी छे. टीकाकार श्रीए पण दरेक पदना अर्थो एटलीज सुन्दर रीते रजू कर्या छे. तो बीजी कृतिमां कविए नैयायिकोना तेमज साङ्ख्यमतना उच्छेदन करनारा पद मूकी परमात्मानी वाणीने वखाणी छे. अहीं पण टीकाकारश्रीए व्याख्यामां तेटलीज सरळ रीते पदार्थो खोल्या छे.
जेमनी स्तुति करवाथी तेओ श्रीसंघना कार्योमां सदा सहाय करनारा थाय, उपद्रवो दूर करनारा थाय, शासननी शोभा वधारनारा थाय एवं विशेष प्रयोजन छे तेवा देवी-देवताओनी स्तुति करता कवि प्रथम कृतिमां शुक्र, चन्द्र, रवि, ब्रह्मशान्ति, अम्बिका आदि देवी देवतानी स्तुति करे छे. ज्यारे बीजी कृतिमां वर्धमानस्वामीनी अधिष्ठायिका सिद्धायिका देवीनी स्तुति करे छे. एकंदरे मूळ अने टीका बन्ने विद्वद्वर्गने वांचवा लायक छे. मूळकर्ता-टीकाकारनो परिचय :
मूळ कविना कर्ता कोण छे तेनी कृतिमां कशी ज नोंध नथी. परंतु कृतिना शब्दो ज कृति कोइ प्राचीन कर्तानी हशे तेवू अनुमान करवा प्रेरे छे. टीकाकारश्री गुणविनयजी खरतरगच्छना एक समर्थ विद्वान छे. तेमणे प्रस्तुत स्तुतिनी टीका जिनचन्द्रसूरिनी प्रेरणाथी करी छे. तेम टीकाना मङ्गलाचरणमां जणाव्युं छे. नलदमयन्तीचम्पूकाव्य टीका जेवा केटलाय ग्रन्थोनुं तेमणे सर्जन कर्यु छे. तेमना विशेष परिचय माटे 'नलदमयन्ती चम्पू काव्य और गुणविनयजी एक अध्ययन' पुस्तक जोवा विद्वानोने विनंती. प्रत परिचय :
लालभाई दलपतभाई भारतीय संस्कृत विद्यामन्दिर ग्रन्थभण्डारमाथी प्राप्त थयेल ५ पत्रनी प्रस्तुत प्रत भेट विभाग नं. ३४७९नी छे. लेखनशैली जोता प्रायः १७मी शताब्धि आसपासनी ज हशे एम अनुमान थाय छे. पत्रनी
Page #3
--------------------------------------------------------------------------
________________
ऑगस्ट २०११
वच्चे सुशोभन छे. लेखन दोषो छे. परंतु अन्य प्रत न मळे त्यां सुधी एक
आधारभूत प्रत छे.
अर्हं नमः
॥ ए६० ॥
( १ )
At
६७
नमः
श्रीशत्रुञ्जयमुख्यतीर्थतिलकं, श्रीनाभिराजाङ्गजं, नेमिं रैवतदैवतं जिनपतिं, चन्द्रप्रभं पत्तने । तारङ्गेऽप्यजितं जिनं भृगुपुरे, श्रीसुव्रतं स्तम्भने, श्रीपार्श्वं प्रणमामि सत्यनगरे, श्रीवर्धमानं त्रिधा ॥१॥ श्रीमद्युगप्रधान श्री जिनचन्द्रगुरोगिरा ।
स्तुतीनां विदधे व्याख्या, सूत्रादर्शानुसारतः ॥ १॥
व्याख्या : अहं श्रीनाभिराजाङ्गजं श्रीनाभिभूपपुत्रम्, त्रिधा - मनोवाक्कायैः, प्रणमामि – नमस्करोमि । किंभूतम् ? श्रीशत्रुञ्जयमुख्यतीर्थतिलकं- श्रीशत्रुञ्जयःपुण्डरीकगिरिरेव, मुख्यं-प्रधानम्, तीर्थं- अन्यतीर्थेभ्योऽस्य प्रधानत्वम्, यदत्र भावत आरूढानां नरकतिर्यग्गतिविच्छेदश्रवणात्, बहूनां मुनीनां सिद्धिप्राप्तेः, बहुश ऋषभदेवस्पृष्टत्वाच्च, तत्र तिलक इव - विशेषक इव विभूषकत्वात्, तम् । तथा नेमिं प्रणमामि । किंभूतम् ? रैवतदैवतं - रैवतस्य-उज्जयन्तस्य, दैवतंदेवं तत्र हारितद्विहारस्य विद्यमानत्वात् । तथा चन्द्रप्रभं जिनपतिं पत्तनेदेवकपत्तने प्रणमामि । तथा तारङ्गेऽपि अजितं द्वितीयं जिनं प्रणमामि । तथा भृगुपुरे - भृगुकच्छे, श्रीसुव्रतं - श्रीसुव्रतस्वामिनं विंशं जिनं प्रणमामि । तथा स्तम्भने श्रीपार्श्वं खरतरगणगगनाङ्गमणिकरणि(किरण) श्रीमदभयदेवसूरिप्रकटीकृतं प्रणमामि । तथा सत्यनगरे सत्यपुर्याम्, श्रीवर्धमानं - श्रीमहावीरं प्रणमामि ॥१॥
वन्देऽनुत्तरकल्पतल्पभवन-ग्रैवेयकव्यन्तर
ज्योतिष्कामरमन्दराद्रिवसतींस्तीर्थंङ्करानादरात् । जम्बू-पुष्कर-धातकीषु रुचके, नन्दीश्वरे कुण्डले,
ये चाऽन्येऽपि जिना नमामि सततं, तान् कृत्रिमाऽकृत्रिमान् ॥२॥
Page #4
--------------------------------------------------------------------------
________________
६८
अनुसन्धान-५६
व्याख्या : अहं आदरात्- मनोभिलाषात्, तीर्थङ्करान् - जिनान् वन्दे । किं भूतान् ? न विद्यते उत्तरा येभ्यस्ते अनुत्तराः - विजयादयः । तथा इन्द्रादिदशया कल्पनात् कल्पः समुदायसन्निवेशो विमानमात्रपृथ्वीप्रस्तारः, तत्र तल्पं - उत्पत्ति शय्या येषां ते कल्पतल्पाः - द्वादशकल्पवासिनः । तथा 'भवन' पदेन पदैकदेशे पदसमुदायोपचारात् भवनपतयः, भामा सत्यभामेतिवत् । तथा ग्रैवेयकाःचतुर्दशरज्वात्मकलोकपुरुषस्य ग्रीवाप्रदेशविनिविष्टाः ग्रीवाभरणभूताः ग्रैवेयकाः, तद्वासिनो देवा अपि ग्रैवेयकाः । तथा विविधेषु शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्तीति व्यन्तराः पिशाचादयोऽष्टौ । तथा ज्योतिष्काः । ततो द्वन्द्वः, ते च ते अमराश्च-देवाः, आधाराऽऽधेययोरभेदोपचारात् तन्निवासस्थानानि । तथा मन्दराद्रिश्च मेरुः, तत्र वसतिः - निवासो येषां ते तान् । तथा जम्ब्विति - जम्बूद्वीपम्, पुष्करेति-पुष्करार्धम्, धातकीति - धातकीखण्डम्, ततो द्वन्द्वः,तासु । तथा रुचके-त्रयोदशे द्वीपे । तथा नन्दीश्वरे - नन्दीश्वरद्वीपे द्विपञ्चाशज्जिनभवनमण्डिते। तथा कुण्डले - कुण्डलगिरौ - चक्रवालपर्वते । चः समुच्चये । ये अन्येऽपि जिनाः-तीर्थकृतः, तान् कृत्रिमाऽकृत्रिमान् - शाश्वताऽशाश्वतान्, जिनान्स्थापनार्हतः, सततं-निरन्तरं नमामि । तत्र रुचकादिषु शाश्वतान्येव जिनबिम्बानि, जम्ब्वादिषु चाऽशाश्वतान्यपि तेन कृत्रिमादि युक्तम् ॥२॥
श्रीमद्वीरजिनास्यपद्महृदतो निर्गत्य तं गौतमं
गङ्गावर्तनमेत्य या च बिभिदे मिथ्यात्ववैताढ्यकम् । उत्पत्ति-स्थिति-संहतित्रिपथगा ज्ञानाऽम्बुधावध्वगा, सा मे कर्ममलं हरत्वविकलं श्रीद्वादशाङ्गी नदी ॥३॥ व्याख्या : सा श्रीद्वादशाङ्गी - द्वादशानामाचारादीनामङ्गानां समाहारो द्वादशाङ्गी, श्रियाज्ञानलक्ष्म्या युक्ता द्वादशाङ्गी श्रीद्वादशाङ्गी । नदी- सरित् । अत्र त्रिपथति विशेषणात् गङ्गेति लभ्यते । प्रौढविशेषणादनुक्तेऽपि विशेष्ये विशेष्यप्रतिपत्तिः, पथा ध्यानैकतानमनसो विगतप्रचाराः पश्यन्ति यं कमपि निर्मलमद्वितीयमित्यत्र ध्यानैकतानमनसो विगतप्रचारा इति प्रौढविशेषणसामर्थ्याद्योगिन इति विशेष्यस्याऽनुक्तस्याऽपि प्रतिपत्तिः । मे मम । अविकलं - अन्यूनं - समस्तम् । कर्ममलंकर्माण्येव मलः-पापम्, तम् । "मलस्त्वघे, किट्टे कदर्ये विष्टायाम्" [द्विस्वरकाण्ड श्लो. ४९४] इत्यनेकार्थः । हरतु - स्फेटतु यत्तदोर्नित्याऽभिसन्धान्धात् । या
Page #5
--------------------------------------------------------------------------
________________
ऑगस्ट २०११
श्रीमद्वीरजिनास्यपद्महदतः-श्रीमद्वीरजिनस्य-श्रीमद्वर्धमानस्वामिनः आस्यं-मुखमेव पद्महृदः-हिमवगिरिमध्यवर्ती हदविशेषः, तस्मात् । पञ्चम्यास्तसिल [पाणिनी० ५।३।७] हदिकसंयोगे पुरः स्थिते पादादावपि लघोर्गुरुत्वाभावः । यथा
तव ह्रियाऽपहियो मम हीरभू-च्छशिगृहेऽपि द्रुतं न धृता ततः । बहुलभ्रामरमेचकतामसं, मम प्रिये क्व समेष्यति तत्पुनः ॥१॥ [ ]
इतिवदत्र हयोगे पूर्वस्य लघुता बोध्या । क्वचिन्नदत इति पाठस्तत्र न कोऽपि शङ्कापिशाचिकाऽवकाशः । निर्गत्य-निःसृत्य । तं गौतम-गौतमगोत्रीयं इन्द्रभूतिम् । गङ्गावर्तनं-गङ्गावर्तननामकं कूटम् । एत्य-प्राप्य । मिथ्यात्ववैताढ्यकं-मिथ्यात्वं-तत्त्वाऽ श्रद्धानमेव वैताढ्यं-वैताढ्यनामा गिरिः, तम्, स्वार्थे कः, मिथ्यात्ववैताढ्यकम् । बिभिदे - अभिनत् । भिदंपी विदारणे, उभयपदी [धातुपारायण-६/५] । यदुक्तं श्रीजम्बूद्वीपप्रज्ञप्त्याम् - "कहि णं भंते जंबूद्दीवे दीवे चुल्लहिमवंते णामं वासहरपव्वए पण्णत्ते । गोयमा ! हेमवयस्स वासस्स दाहिणेणं भरहस्स वासस्स उत्तरेणं पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं इत्थ णं जंबुद्दीवे दीवे चुल्लहिमवंते नामं वासहरपव्वए पण्णत्ते । पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुडे पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुढे एगं जोयणसयं उठें उच्चत्तेणं पणवीसं जोयणाई उव्वेहेणं एगं जोयणसहस्सं बावण्णं च जोयणाई दुवालस य एगूणवीसइमे भाए जोयणस्स विक्कंभेण..... [सूत्र. ७२]
तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए इत्थ णं एगे महं पउमद्दहे णामं दहे पण्णत्ते-पाईणपडीणयाए उदीणदाहिणविच्छिण्णे इक्कं जोयणसहस्सं आयामेणं पञ्च जोयणसयाई विखंभेणं दस जोयणाई उव्वेहेणं
......[सूत्र ७३] तस्स णं पउमदहस्स पुरथिमिल्लेणं तोरणेणं गंगा महानई पवूढा समाणी पुरत्थाभिमुही पञ्च जोयणसयाई पच्चएणं गंता गंगावत्तणकूडे आवत्ता समा पञ्च तेवीसे जोयणसए तिण्णि य एगूणवीसइमे भाए जोयणस्स दाहिणाभिमुही १. टीकाकार श्रीओ सूत्रनो अमुक ज भाग अहीं साक्षीपाठ तरीके मुक्यो छे. अमोए पण ते
सूत्रना नंबर साथे तेटलो ज पाठ उतार्यो छे. आधार आगम सुत्ताणि-मुनि दीपरत्नसागरजी.
Page #6
--------------------------------------------------------------------------
________________
७०
अनुसन्धान-५६
पव्वएणं गंता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगपवाएणं पयडइ गंगा महानई जओ पवडइ [ इत्थ णं..... पवडइ ] इत्थ णं महं एगे गंगप्पवायकुंडे नाम कुंडे पण्णत्ते [सट्टिं जोयणाई....नामधेज्जे पण्णत्ते] तस्स णं गंगप्पवायकुंडस्स दक्खिणिल्लेणं तोरणेणं गंगा महानई पवूढा समाणी उत्तरड्डभरहवासं पज्जेमाणी पज्जेमाणी सत्तहिं सलिलासहस्सेहिं आपूरेमाणी आपूरेमाणी अहे खण्डप्पवायगुहाए वेयड्डूपव्वयं दालइत्ता दाहिणड्डूभरहवासं पज्जेमाणी पज्जेमाणी दाहिणड्डूभरहवासस्स बहुमज्झदेसभागं गंता पुरत्थाभिमुही आवत्ता समाणी चउदसहिं सलिलासहस्सेहिं समग्गा अहे जगइं दालइत्ता पुरत्थिमेणं लवणसमुद्दं समप्पेइ .... [ सूत्र. ९४] ॥ किंभूता द्वादशाङ्गी नदी ? उत्पत्तिस्थितिसंहृतित्रिपथगा - उत्पत्तिश्च स्थितिश्च संहृतिश्च उत्पत्तिस्थितिसंहृतयः । उपण्णे वा विगमे वा [ धुवे वा] इत्यागमवचनश्रवणात् । उत्पादः केवलो नास्ति, स्थिति-विगमरहितत्वात्, कूर्मरोमवत् । तथा विनाशः केवलो नास्ति, स्थित्युपप (त्प) त्ति - रहितत्वात्, तद्वत् । एवं स्थिति: केवला नास्ति, विनाशोत्पादशून्यत्वात्, तद्वदेव । इत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथा च कथं नैकं त्र्यात्मकम्, यदूचे
—
प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते, पुत्रः प्रीतिमुवाह कामपि नृपः शिश्राय मध्यस्थताम् । पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्द्वया
धारश्चैक इति स्थितिं (तं) त्रयमयं तत्त्वं तथाप्रत्ययात् ॥१॥ [स्याद्वादमुक्तावली, श्लो. १८ ]
ताः, एवं त्रिपथं-त्रयाणां पथां समाहारस्त्रिपथम् । ‘ऋक्यूरब्धूः पथामानक्षे’ [पाणिनी० ५।४।७४] इति अप्रत्ययः समासान्तः, तद् गच्छति प्राप्नोति उत्पत्तिस्थितिसंहृतित्रिपथगा । अन्याऽपि प्रथमं वामनावतारोर्ध्वचरणक्षेपोपरितनब्रह्माण्डकटाहनखाघातस्फोटननिःसृतब्रह्मजलानन्तरधातृकमण्डलुजल रूपधर्मवामनचरणप्रवाहीभूतगङ्गा श्रीमहादेवेन धृता । सा च भगीरथप्रार्थनया श्रीमहादेवेन जटायाः सकाशात् स्वर्गमार्गेण हिमाचलमागता मुक्ता, जनुना नृपेण पाता, तमो जङ्घामार्गेण मुक्ता सा च काश्यादौ हरिद्वारादौ च स्थिता । स्वर्गे मन्दाकिनी, अत्र जाह्नवी, पाताले भोगवतीति त्रिपथगा भवत्येव । तथा या ज्ञानाम्बुधौ-ज्ञानसमुद्रे, अध्वगेवाध्वनीनेव अध्वगा ज्ञानसमुद्रं प्राप्तेत्यर्थः । अन्याऽपि
Page #7
--------------------------------------------------------------------------
________________
ऑगस्ट २०११
७१
गङ्गा समुद्रगामिनी भवतीति छायार्थः ॥३॥
शक्रश्चन्द्ररवी ग्रहाश्च धरणेन्द्रब्रह्मशान्त्यम्बिका, दिक्पालाश्च कपर्दिगोमुखगणाश्चक्रेश्वरी भारती । येऽन्ये ज्ञानतपःक्रियाव्रतविधिश्रीतीर्थयात्रादिषु,
श्रीसङ्घ सुतरां चतुर्विधसुरास्ते सन्तु भद्रङ्कराः ॥४॥ व्याख्या : शक्रः-इन्द्रः, चन्द्ररवी-शशिभास्करौ, ग्रहाः-मङ्गलाद्याः, चः समुच्चये, धरणेन्द्रब्रह्मशान्त्यम्बिकाः-धरणेन्द्रश्च भुजगपतिः, ब्रह्मशान्तिश्च अम्बिका च, ताः । तथा दिक्पालाः-दिगीशाः, सोमयमवरुणकुबेराः, च-पुनः, कपर्दि गोमुखगणा:-कपदिश्च-श्रीशत्रुञ्जयाधिष्ठाता, गोमुखश्च गणाश्च-तदनुचराणां समूहाः अभीच्यादयो वा । तथा चक्रेश्वरी भारती - सरस्वती । तथा ये अन्येऽपि शब्दाध्याहारादपरेऽपि चतुर्विधसुराश्चतुर्निकायवासिदेवाः सन्ति ते सङ्के सुतरांअतिशयेन ज्ञानतपःक्रियाव्रतविधिश्रीतीर्थयात्रादिषु-ज्ञानं च-शास्त्राऽधिगमः, तपश्च षष्टाष्टमादि, क्रिया च साधुकरणीयम्, व्रतविधिश्च देशसर्वविरतिविधानम्, श्रीतीर्थयात्रा च शत्रुञ्जयादितीर्थनमस्करणप्रवृत्तिः, ता आदौ येषाम्, जिनशासनोद्योतविधीनाम्, ते तथा तेषु, भद्रङ्करः-कल्याणकारिणः सन्तु-भवन्तु ॥४॥
(२) अहँ नमः
द्वीपे जम्ब्वाह्वये ये जितमदनबला केवलालोकभाजो, द्वीपे ये च द्वितीये सुखमयविषये पुष्कराधै तथा ये, भावार्हन्तो जयेयुः समवसरणगाः धर्मरत्नं दिशन्त
स्तेभ्यो भूयादजस्त्रं त्रिकरणविहितो मामकीनः प्रणामः ॥१॥ व्याख्या : तेभ्यः-जिनेभ्यः, मामकीन:-ममाऽयं मामकीनः, 'तवकममकावेकवचने' [पाणिनी० ४।३।३] इति अस्मदः खञ् । त्रिकरणविहितः-वाग्मनःकायजनितः, प्रणामः-नमस्कारः, अजस्त्रं-निरन्तरम्, जसु(च)मोक्षणे [धातुपारायण ३/८०] नपूर्वः नजिकपीति र:(?), भूयात्-भवतु । तेभ्य इति यत्तदोर्नित्याऽभिसम्बन्धात् ये जम्ब्वाह्वये द्वीपे-जम्बूद्वीपे, भावार्हन्तः-भावजिनाः, जयेयुः-सर्वोत्कर्षण वर्तेरन्, अतीताऽनागतानामपि भावार्हत्त्वकल्पनयैव वन्द्यत्वम्, एते च साक्षाद् भावार्हन्तस्ततः किं वाच्यम् ? । किंभूताः ? ये जितमदनबलाः-जितं
एँ नमः
Page #8
--------------------------------------------------------------------------
________________
अनुसन्धान-५६
पराभूतम्, मदनबलं-कामसैन्यं यैस्ते । तथा केवलालोकं-केवलज्ञानं भजन्तीति केवलालोकभाजः-केवलिनः । चः समुच्चये । ये द्वितीये द्वीपे-धातकीखण्डे भावार्हन्तो जयेयुः । किंभूते द्वीपे ? सुखमयविषये-सुखमया:-सुखप्रचुराः, प्राचुर्ये मयट् । विषयाः-देशा यस्मिंस्तत्, तस्मिन् । तथा पुष्करार्धे-इतस्तृतीये द्वीपे भावार्हन्तो जयेयुः । किंभूताः ? ये समवसरणगाः-समवसरणंद्वादशपर्षदवस्थानभूमिः, तद् गच्छन्ति-प्राप्नुवन्तीति समवसरणगाः समवसरणमध्यस्थिताः । नामजिणा जिणनामा, ठवणजिणा पुण जिणिंदपडिमाओ । दव्वजिणा जिणजीवा, भावजिणा समवसरणत्था ॥[चैत्यवन्दनकभाष्य गा. ५१] अत एव । किं कुर्वन्तः ? धर्मरत्नं-धर्माणां मध्ये यो रत्नमिव वर्तते जिनप्रणीतो देशविरति-सर्वविरतिरूपो धर्मस्तद् धर्मरत्नम्,तत् दिशन्तः ददानाः ॥१॥
पाताले श्रीविशाले भवनपतिसुधान्धोनिवासान्तराले, तिर्यग् द्वीपेषु ताराग्रहवनगिरिषु व्यन्तराणां पुरेषु । ऊर्ध्वं वैमानिकानां निरुपमगृहगाः स्थापनार्हत्समूहाः,
विद्यन्तेऽनेकधा ये त्रिभुवनतिलकास्तान्नमस्कुर्महेऽत्र ॥२॥ व्याख्या : तान्-जिनान् वयं अत्र-चैत्यवन्दनाधिकारे नमस्कुर्महे-प्रणमामः, 'नमस्पुरसोर्गत्योः' [ ] इति विसर्गस्य सः । अथ स्थाननियमनायाऽऽह - यत्तदोनित्ययोगात् ये पाताले-अधोलोके, सुधैव अन्धः-भोज्यं येषां ते सुधान्धसःदेवाः, भवनपतय एव सुधान्धसो भवनपतिसुधान्धसः, तेषां ये निवासाःनिवासस्थानानि, तेषामन्तराले-मध्ये स्थापनार्हत्समूहाः-स्थापनाजिनवृन्दानि शाश्वतानि-ऋषभवर्धमानचन्द्राननवारिषेणनाम्ना अनेकधा-अनेकप्रकारेण विद्यन्ते 'सगकोडि-बिसयरिलक्ख ७७२००००० भवणेसु' [शाश्वतचैत्यस्तव-देवेन्द्रसूरि] इति वचनात् । किंभूते पाताले ? श्रीविशाले-श्रिया-जिनगृहलक्ष्म्या, विशालेविस्तीर्णे । तथा ये तिर्यक्द्वीपेषु-तिर्यक्-क्षेत्रवर्तिनन्दीश्वरादिद्वीपेषु 'बावन्ना नंदीसरवरंमि, चउचउर कुंडले रुअगे' [शाश्वतचैत्यस्तव-देवेन्द्रसूरि श्लो. २] इत्यागमोक्तेषु स्थापनार्हत्समूहाः विद्यन्ते । तथा ये ताराग्रहवनगिरिषु-ताराग्रहपदेन सकलज्योतिष्कोपलक्षणम्, तेन चन्द्रार्कनक्षत्रतारास्विति ध्येयम्, 'जोइवणेसु असंखा [शाश्वतचैत्यस्तव देवेन्द्रसूरि श्लो. १] इत्युक्तेः ताराश्च ग्रहाश्च वनानि च
Page #9
--------------------------------------------------------------------------
________________
ओगस्ट २०११
नन्दनवनादीनि 'मेरुवणि असीइ' [शाश्वतचैत्यस्तव देवेन्द्रसूरि श्लो. १४] इति वचनात् । गिरयश्च वक्षस्कारादयः 'वक्खारेसु असीइ' [शाश्वत चैत्यस्तवदेवेन्द्रसूरि श्लो. १४] इति वचनात् । तेषु स्थापनार्हन्तो विद्यन्ते । तथा ये व्यन्तराणां पुरेषु 'जोइवणेसु असंख्या' [शाश्वतचैत्यस्तव-देवेन्द्रसूरि श्लो. १] इत्युक्तेः स्थापनाजिनाः सन्ति । तथा ये ऊर्ध्वं-ऊर्ध्वलोके, वैमानिकानांविमानवासिदेवानां निरुपमगृहगाः-असमानविमानस्थिताः स्थापनार्हत्समूहा विद्यन्ते । 'चुलसीलक्ख-सगनवइसहस्स तेवीसु ८४९७०२३ वरिलोए' [शाश्वतचैत्यस्तवदेवेन्द्रसूरि श्लो. १२] इति वचनात् । किंभूताः स्थापनार्हन्तः ? त्रिभुवनतिलकाःत्रिभुवने-विष्टपे तिलका इव शोभाकारित्वात् ये, ते तथा ।
कृत्स्नं यत्राऽस्ति वस्तु प्रणिगदितमिदं द्रव्यपर्यायरूपं, ज्ञानं स्वान्यप्रकाशि प्रदलितसकलादीनवाचं प्रमाणम् । कर्ता भोक्ता प्रमाता चतसृषु गतिषूत्पत्तिमांश्चित्स्वरूपं,
श्रीसिद्धान्तं नितान्तं जिनपतिगदितं तं भजामः स्मरामः ॥३॥ व्याख्या : श्रीसिद्धान्तं-श्रीजिनागमं 'वयम्' इत्यनुक्तोऽप्यस्मत्प्रयोगोऽध्येयः, नितान्तं-अतिशयेन, भजामः-अपूर्वाऽध्ययनेन सेवामहे, शास्त्राध्ययनमेव सेवा । तथा स्मरामः-स्मृतिविषयीकुर्मः, एतेनाऽधीतस्य शास्त्रस्य चिरस्थायित्वं स्मरणेनैव भवतीति ध्वनितम् । किंविशिष्टं जिनसिद्धान्तम् ? जिनपतिगदितं-जिनपतिनासर्वज्ञेन, प्रणिगदितं-अर्थतः प्रणीतम्, सकलज्ञानावरणविलयोत्थाविकलकेवलालोकेन सकललोकालोकादिवस्तुवेत्तृत्वात् सर्वज्ञस्येति, तत्प्रणीतः सिद्धान्तः प्रमाणमेव भवतीति ज्ञापितम्, अथवा जिनाः-श्रुतकेवलिनः, तेषां पति:-स्वामी, सुधर्मा पञ्चमगणधरः,तेनाऽऽत्मागमतः सूत्रतः प्रणीतत्वात् । पुनः किंविशिष्टम् ? चित्स्वरूपं-ज्ञानस्वरूपम् । द्रव्यश्रुतस्योपयोगरूपभावश्रुतकारणत्वात् कारणे कार्योपचारात् उपयोगात्मकत्वं सिद्धान्तस्य सिद्धम् । अथ तच्छब्दयच्छब्दमपेक्षते [ ? ] इति वचनात् । यत्रेति निर्दिशति - यत्र श्रीसिद्धान्ते, कृत्स्नं-समग्रम्, इदं-सर्वतत्त्ववित्प्रत्यक्षम्, द्रव्यपर्यायरूपं तत्र गुणानामाश्रयो द्रव्यम्, 'गुणाणमासओ दव्व'मिति वचनात् [संग्रहशतक श्लो. ३५] गुणः सहभावी धर्मः, यथाऽऽत्मनि विज्ञानव्यक्तिशक्त्यादिरिति, पर्यायश्च क्रमभावी, यथा तत्रैव सुखदुःखादिरिति । द्रव्याणि च पर्यायाश्च, तद्रूपं-तत्स्वभावं तदात्मकमिति यावत् । वस्तु
Page #10
--------------------------------------------------------------------------
________________
७४
अनुसन्धान-५६
अनन्तधर्मात्मकम्, प्रणिगदितं-प्ररूपितम्, अस्ति-विद्यते । च-पुनः । यत्र श्रीसिद्धान्ते स्वान्यप्रकाशि-स्वं आत्मा, ज्ञानस्य स्वरूपं अन्यः स्वस्मादपरोऽर्थ इति यावत्, तौ प्रकाशते-प्रकटीकरोतीत्येवं शीलः स्वान्यप्रकाशि, स्वपरव्यसायीति भावः । ज्ञानं-प्रमाणम्, प्रकर्षेण संशयाद्यभावस्य भावेन मीयते परिच्छिद्यते वस्तु येन तत् प्रमाणं प्रतिगदितम्, अत्र ज्ञानमिति विशेषणमज्ञानस्य व्यवहारमार्गानवतारिणः सन्मात्रगोचरस्य स्वसमयसिद्धस्य दर्शनस्य सन्निकर्षादेश्चाऽचेतनस्य नैयायिकादिकल्पितस्य प्रामाण्यपराकरणार्थं । तत्र जैनानां मते द्वे प्रमाणे, प्रत्यक्षपरोक्षलक्षणे "यदुक्तम्" ।
प्रत्यक्षं च परोक्षं च, द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु, प्रमाणविषयस्त्विह ॥१॥
___ [षड्दर्शन समुच्चय श्लो. २] किंभूतं ज्ञानम् ? प्रदलितसकलादीनवाचं-प्रदलिता:-प्रध्वस्ताः, सकला दीनवाचं-कुवादिप्रथितनित्यानित्यत्वैकान्तवादादिदोषा येन तत् । तथा यत्र श्रीसिद्धान्ते प्रमाता-स्वपरव्यवसितिक्रियासाधकः, आत्मा । कर्ता-शुभाऽशुभकर्मणां मिथ्यात्वाऽविरतिकषाययोगैः कुलाल इव मृद्दण्ड-चक्रवीवरादिभिर्घटस्य कारकः । तथा भोक्ता-स्वकृतकर्मफलास्वादकः । अनेन साङ्ख्यमतमपाकृतम् । तेषां हि मते की प्रकृतिरेव, तस्याः प्रकृतिस्वभावत्वात् । आत्मा पुनः प्रकृतेश्चतुर्विंशतितत्त्वरूपायाः पृथग्भूतः अकर्ता विगुणो भोक्ता नित्यचिदभ्युपेतश्चेति । जैनमते यस्यैव कर्तृत्वं तस्यैव भोक्तृत्वमित्यावेदितम् । तथा चतसृषु गतिषुसुरनरनरकतिर्यग्रूपासु, उत्पत्तिमान्-प्रस्तरिकर्ता(?) विभक्तिपरिणामात् प्रणिगदितः । यदुक्तम्
देवो नेरइउत्ति य, कीड पयंगुत्ति माणुसो एसो । रूवस्सी य विरूवो, सुहभागी दुक्खभागी य ॥१॥ राउत्ति य दमगुत्ति य, एस सवागुत्ति एस वेयविऊ । सामी दासो पुज्जो, खलोत्ति अधणो धणवइत्ति ॥२॥ नवि इत्थ कोइ नियमो, सकम्म-विणिविट्ठसरिसकयचिट्ठो । अन्नुन्नरूववेसो, नडुव्व परिअत्तए जीवो ॥३॥
[उपदेशमाळा श्लो. ४५।४६।४७]
Page #11
--------------------------------------------------------------------------
________________ ऑगस्ट 2011 एतावता आत्मनो द्रव्यार्थिकनयेन नित्यत्वम्, पर्यायाथिकनयेन चाऽनित्यत्वं निवेदितम् // 3 // देवश्रीवर्धमानक्रमकमलयुगाऽऽराधनैकाग्रचित्ता, या देवी दिव्यरूपा करतलविलसच्चक्रचापा विपापा / श्रीसर्वज्ञप्रणीतं सुकृतमनुपमं कुर्वतां प्राणभाजां, विघ्नव्यूहं समन्ताद्दलयतु नितरामाशु सिद्धायिका सा // 4 // व्याख्या : सा सिद्धायिका-श्रीवीरशासनाधिष्ठात्री देवी, आशु-शीघ्रम्, नितरांअतिशयेन, समन्तात्-समन्ततः, प्राणभाजां-प्राणिनाम्, विघ्नव्यूह-अन्तरायसमवायम्, दलयतु-विभेदय-स्फेटयतु / दल(ण)मि(वि)भेदे (विदारणे) धातुपारायणं-९/१८४) / किं कुर्वता प्राणभाजाम् ? श्रीसर्वज्ञप्रणीतं-श्रीमदर्हदुक्तम्, अनुपमं-असदृशम्, सुकृतं-पुण्यं कुर्वताम् / यत्तदोनित्याभिसम्बन्धात् या देवश्रीवर्धमानक्रमकमलयुगाराधनैकाग्रचित्ता-श्रीवर्धमानक्रमकमलयुगस्यश्रीवीरचरणपद्मद्वन्द्वस्य, यदाराधनं-उपास्तिः, तत्रैकाग्रं-एकतानं चित्तं यस्याः सा। पुनः किंभूता ? दिव्यरूपा-दिव्यं-वल्गु, रूपं-आकारो यस्याः सा दिव्यरूपा, "दिव्य वल्गु लवङ्गयोः' [द्विस्वरकाण्ड. श्लो. 357] इत्यनेकार्थः। पुनः किंभूताः ? करतलविलसच्चक्रचापा-करतलयोः-पाण्योः, विलसन्तौशोभमानौ, चक्रचापौ-चक्रधनुषी यस्याः / तथा विपापा-पापरहिता // 4 // श्रीमत्यणहिल्लपत्तनपुरे व्यधायि स्तुता स्तुतिव्याख्या / श्रीजयसोमगुरूणां शिष्यैर्गुणविनयगणिभिरियम् // 1 // ठे. जैन धर्मशाला पोलिस चोकी सामे, पो. तलाजा तीर्थ 364140