________________
अनुसन्धान-५६
पराभूतम्, मदनबलं-कामसैन्यं यैस्ते । तथा केवलालोकं-केवलज्ञानं भजन्तीति केवलालोकभाजः-केवलिनः । चः समुच्चये । ये द्वितीये द्वीपे-धातकीखण्डे भावार्हन्तो जयेयुः । किंभूते द्वीपे ? सुखमयविषये-सुखमया:-सुखप्रचुराः, प्राचुर्ये मयट् । विषयाः-देशा यस्मिंस्तत्, तस्मिन् । तथा पुष्करार्धे-इतस्तृतीये द्वीपे भावार्हन्तो जयेयुः । किंभूताः ? ये समवसरणगाः-समवसरणंद्वादशपर्षदवस्थानभूमिः, तद् गच्छन्ति-प्राप्नुवन्तीति समवसरणगाः समवसरणमध्यस्थिताः । नामजिणा जिणनामा, ठवणजिणा पुण जिणिंदपडिमाओ । दव्वजिणा जिणजीवा, भावजिणा समवसरणत्था ॥[चैत्यवन्दनकभाष्य गा. ५१] अत एव । किं कुर्वन्तः ? धर्मरत्नं-धर्माणां मध्ये यो रत्नमिव वर्तते जिनप्रणीतो देशविरति-सर्वविरतिरूपो धर्मस्तद् धर्मरत्नम्,तत् दिशन्तः ददानाः ॥१॥
पाताले श्रीविशाले भवनपतिसुधान्धोनिवासान्तराले, तिर्यग् द्वीपेषु ताराग्रहवनगिरिषु व्यन्तराणां पुरेषु । ऊर्ध्वं वैमानिकानां निरुपमगृहगाः स्थापनार्हत्समूहाः,
विद्यन्तेऽनेकधा ये त्रिभुवनतिलकास्तान्नमस्कुर्महेऽत्र ॥२॥ व्याख्या : तान्-जिनान् वयं अत्र-चैत्यवन्दनाधिकारे नमस्कुर्महे-प्रणमामः, 'नमस्पुरसोर्गत्योः' [ ] इति विसर्गस्य सः । अथ स्थाननियमनायाऽऽह - यत्तदोनित्ययोगात् ये पाताले-अधोलोके, सुधैव अन्धः-भोज्यं येषां ते सुधान्धसःदेवाः, भवनपतय एव सुधान्धसो भवनपतिसुधान्धसः, तेषां ये निवासाःनिवासस्थानानि, तेषामन्तराले-मध्ये स्थापनार्हत्समूहाः-स्थापनाजिनवृन्दानि शाश्वतानि-ऋषभवर्धमानचन्द्राननवारिषेणनाम्ना अनेकधा-अनेकप्रकारेण विद्यन्ते 'सगकोडि-बिसयरिलक्ख ७७२००००० भवणेसु' [शाश्वतचैत्यस्तव-देवेन्द्रसूरि] इति वचनात् । किंभूते पाताले ? श्रीविशाले-श्रिया-जिनगृहलक्ष्म्या, विशालेविस्तीर्णे । तथा ये तिर्यक्द्वीपेषु-तिर्यक्-क्षेत्रवर्तिनन्दीश्वरादिद्वीपेषु 'बावन्ना नंदीसरवरंमि, चउचउर कुंडले रुअगे' [शाश्वतचैत्यस्तव-देवेन्द्रसूरि श्लो. २] इत्यागमोक्तेषु स्थापनार्हत्समूहाः विद्यन्ते । तथा ये ताराग्रहवनगिरिषु-ताराग्रहपदेन सकलज्योतिष्कोपलक्षणम्, तेन चन्द्रार्कनक्षत्रतारास्विति ध्येयम्, 'जोइवणेसु असंखा [शाश्वतचैत्यस्तव देवेन्द्रसूरि श्लो. १] इत्युक्तेः ताराश्च ग्रहाश्च वनानि च