________________
ऑगस्ट २०११
वच्चे सुशोभन छे. लेखन दोषो छे. परंतु अन्य प्रत न मळे त्यां सुधी एक
आधारभूत प्रत छे.
अर्हं नमः
॥ ए६० ॥
( १ )
At
६७
नमः
श्रीशत्रुञ्जयमुख्यतीर्थतिलकं, श्रीनाभिराजाङ्गजं, नेमिं रैवतदैवतं जिनपतिं, चन्द्रप्रभं पत्तने । तारङ्गेऽप्यजितं जिनं भृगुपुरे, श्रीसुव्रतं स्तम्भने, श्रीपार्श्वं प्रणमामि सत्यनगरे, श्रीवर्धमानं त्रिधा ॥१॥ श्रीमद्युगप्रधान श्री जिनचन्द्रगुरोगिरा ।
स्तुतीनां विदधे व्याख्या, सूत्रादर्शानुसारतः ॥ १॥
व्याख्या : अहं श्रीनाभिराजाङ्गजं श्रीनाभिभूपपुत्रम्, त्रिधा - मनोवाक्कायैः, प्रणमामि – नमस्करोमि । किंभूतम् ? श्रीशत्रुञ्जयमुख्यतीर्थतिलकं- श्रीशत्रुञ्जयःपुण्डरीकगिरिरेव, मुख्यं-प्रधानम्, तीर्थं- अन्यतीर्थेभ्योऽस्य प्रधानत्वम्, यदत्र भावत आरूढानां नरकतिर्यग्गतिविच्छेदश्रवणात्, बहूनां मुनीनां सिद्धिप्राप्तेः, बहुश ऋषभदेवस्पृष्टत्वाच्च, तत्र तिलक इव - विशेषक इव विभूषकत्वात्, तम् । तथा नेमिं प्रणमामि । किंभूतम् ? रैवतदैवतं - रैवतस्य-उज्जयन्तस्य, दैवतंदेवं तत्र हारितद्विहारस्य विद्यमानत्वात् । तथा चन्द्रप्रभं जिनपतिं पत्तनेदेवकपत्तने प्रणमामि । तथा तारङ्गेऽपि अजितं द्वितीयं जिनं प्रणमामि । तथा भृगुपुरे - भृगुकच्छे, श्रीसुव्रतं - श्रीसुव्रतस्वामिनं विंशं जिनं प्रणमामि । तथा स्तम्भने श्रीपार्श्वं खरतरगणगगनाङ्गमणिकरणि(किरण) श्रीमदभयदेवसूरिप्रकटीकृतं प्रणमामि । तथा सत्यनगरे सत्यपुर्याम्, श्रीवर्धमानं - श्रीमहावीरं प्रणमामि ॥१॥
वन्देऽनुत्तरकल्पतल्पभवन-ग्रैवेयकव्यन्तर
ज्योतिष्कामरमन्दराद्रिवसतींस्तीर्थंङ्करानादरात् । जम्बू-पुष्कर-धातकीषु रुचके, नन्दीश्वरे कुण्डले,
ये चाऽन्येऽपि जिना नमामि सततं, तान् कृत्रिमाऽकृत्रिमान् ॥२॥