________________
६८
अनुसन्धान-५६
व्याख्या : अहं आदरात्- मनोभिलाषात्, तीर्थङ्करान् - जिनान् वन्दे । किं भूतान् ? न विद्यते उत्तरा येभ्यस्ते अनुत्तराः - विजयादयः । तथा इन्द्रादिदशया कल्पनात् कल्पः समुदायसन्निवेशो विमानमात्रपृथ्वीप्रस्तारः, तत्र तल्पं - उत्पत्ति शय्या येषां ते कल्पतल्पाः - द्वादशकल्पवासिनः । तथा 'भवन' पदेन पदैकदेशे पदसमुदायोपचारात् भवनपतयः, भामा सत्यभामेतिवत् । तथा ग्रैवेयकाःचतुर्दशरज्वात्मकलोकपुरुषस्य ग्रीवाप्रदेशविनिविष्टाः ग्रीवाभरणभूताः ग्रैवेयकाः, तद्वासिनो देवा अपि ग्रैवेयकाः । तथा विविधेषु शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्तीति व्यन्तराः पिशाचादयोऽष्टौ । तथा ज्योतिष्काः । ततो द्वन्द्वः, ते च ते अमराश्च-देवाः, आधाराऽऽधेययोरभेदोपचारात् तन्निवासस्थानानि । तथा मन्दराद्रिश्च मेरुः, तत्र वसतिः - निवासो येषां ते तान् । तथा जम्ब्विति - जम्बूद्वीपम्, पुष्करेति-पुष्करार्धम्, धातकीति - धातकीखण्डम्, ततो द्वन्द्वः,तासु । तथा रुचके-त्रयोदशे द्वीपे । तथा नन्दीश्वरे - नन्दीश्वरद्वीपे द्विपञ्चाशज्जिनभवनमण्डिते। तथा कुण्डले - कुण्डलगिरौ - चक्रवालपर्वते । चः समुच्चये । ये अन्येऽपि जिनाः-तीर्थकृतः, तान् कृत्रिमाऽकृत्रिमान् - शाश्वताऽशाश्वतान्, जिनान्स्थापनार्हतः, सततं-निरन्तरं नमामि । तत्र रुचकादिषु शाश्वतान्येव जिनबिम्बानि, जम्ब्वादिषु चाऽशाश्वतान्यपि तेन कृत्रिमादि युक्तम् ॥२॥
श्रीमद्वीरजिनास्यपद्महृदतो निर्गत्य तं गौतमं
गङ्गावर्तनमेत्य या च बिभिदे मिथ्यात्ववैताढ्यकम् । उत्पत्ति-स्थिति-संहतित्रिपथगा ज्ञानाऽम्बुधावध्वगा, सा मे कर्ममलं हरत्वविकलं श्रीद्वादशाङ्गी नदी ॥३॥ व्याख्या : सा श्रीद्वादशाङ्गी - द्वादशानामाचारादीनामङ्गानां समाहारो द्वादशाङ्गी, श्रियाज्ञानलक्ष्म्या युक्ता द्वादशाङ्गी श्रीद्वादशाङ्गी । नदी- सरित् । अत्र त्रिपथति विशेषणात् गङ्गेति लभ्यते । प्रौढविशेषणादनुक्तेऽपि विशेष्ये विशेष्यप्रतिपत्तिः, पथा ध्यानैकतानमनसो विगतप्रचाराः पश्यन्ति यं कमपि निर्मलमद्वितीयमित्यत्र ध्यानैकतानमनसो विगतप्रचारा इति प्रौढविशेषणसामर्थ्याद्योगिन इति विशेष्यस्याऽनुक्तस्याऽपि प्रतिपत्तिः । मे मम । अविकलं - अन्यूनं - समस्तम् । कर्ममलंकर्माण्येव मलः-पापम्, तम् । "मलस्त्वघे, किट्टे कदर्ये विष्टायाम्" [द्विस्वरकाण्ड श्लो. ४९४] इत्यनेकार्थः । हरतु - स्फेटतु यत्तदोर्नित्याऽभिसन्धान्धात् । या