________________
ऑगस्ट २०११
श्रीमद्वीरजिनास्यपद्महदतः-श्रीमद्वीरजिनस्य-श्रीमद्वर्धमानस्वामिनः आस्यं-मुखमेव पद्महृदः-हिमवगिरिमध्यवर्ती हदविशेषः, तस्मात् । पञ्चम्यास्तसिल [पाणिनी० ५।३।७] हदिकसंयोगे पुरः स्थिते पादादावपि लघोर्गुरुत्वाभावः । यथा
तव ह्रियाऽपहियो मम हीरभू-च्छशिगृहेऽपि द्रुतं न धृता ततः । बहुलभ्रामरमेचकतामसं, मम प्रिये क्व समेष्यति तत्पुनः ॥१॥ [ ]
इतिवदत्र हयोगे पूर्वस्य लघुता बोध्या । क्वचिन्नदत इति पाठस्तत्र न कोऽपि शङ्कापिशाचिकाऽवकाशः । निर्गत्य-निःसृत्य । तं गौतम-गौतमगोत्रीयं इन्द्रभूतिम् । गङ्गावर्तनं-गङ्गावर्तननामकं कूटम् । एत्य-प्राप्य । मिथ्यात्ववैताढ्यकं-मिथ्यात्वं-तत्त्वाऽ श्रद्धानमेव वैताढ्यं-वैताढ्यनामा गिरिः, तम्, स्वार्थे कः, मिथ्यात्ववैताढ्यकम् । बिभिदे - अभिनत् । भिदंपी विदारणे, उभयपदी [धातुपारायण-६/५] । यदुक्तं श्रीजम्बूद्वीपप्रज्ञप्त्याम् - "कहि णं भंते जंबूद्दीवे दीवे चुल्लहिमवंते णामं वासहरपव्वए पण्णत्ते । गोयमा ! हेमवयस्स वासस्स दाहिणेणं भरहस्स वासस्स उत्तरेणं पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुदस्स पुरथिमेणं इत्थ णं जंबुद्दीवे दीवे चुल्लहिमवंते नामं वासहरपव्वए पण्णत्ते । पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुडे पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुढे एगं जोयणसयं उठें उच्चत्तेणं पणवीसं जोयणाई उव्वेहेणं एगं जोयणसहस्सं बावण्णं च जोयणाई दुवालस य एगूणवीसइमे भाए जोयणस्स विक्कंभेण..... [सूत्र. ७२]
तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए इत्थ णं एगे महं पउमद्दहे णामं दहे पण्णत्ते-पाईणपडीणयाए उदीणदाहिणविच्छिण्णे इक्कं जोयणसहस्सं आयामेणं पञ्च जोयणसयाई विखंभेणं दस जोयणाई उव्वेहेणं
......[सूत्र ७३] तस्स णं पउमदहस्स पुरथिमिल्लेणं तोरणेणं गंगा महानई पवूढा समाणी पुरत्थाभिमुही पञ्च जोयणसयाई पच्चएणं गंता गंगावत्तणकूडे आवत्ता समा पञ्च तेवीसे जोयणसए तिण्णि य एगूणवीसइमे भाए जोयणस्स दाहिणाभिमुही १. टीकाकार श्रीओ सूत्रनो अमुक ज भाग अहीं साक्षीपाठ तरीके मुक्यो छे. अमोए पण ते
सूत्रना नंबर साथे तेटलो ज पाठ उतार्यो छे. आधार आगम सुत्ताणि-मुनि दीपरत्नसागरजी.