SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ७० अनुसन्धान-५६ पव्वएणं गंता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगपवाएणं पयडइ गंगा महानई जओ पवडइ [ इत्थ णं..... पवडइ ] इत्थ णं महं एगे गंगप्पवायकुंडे नाम कुंडे पण्णत्ते [सट्टिं जोयणाई....नामधेज्जे पण्णत्ते] तस्स णं गंगप्पवायकुंडस्स दक्खिणिल्लेणं तोरणेणं गंगा महानई पवूढा समाणी उत्तरड्डभरहवासं पज्जेमाणी पज्जेमाणी सत्तहिं सलिलासहस्सेहिं आपूरेमाणी आपूरेमाणी अहे खण्डप्पवायगुहाए वेयड्डूपव्वयं दालइत्ता दाहिणड्डूभरहवासं पज्जेमाणी पज्जेमाणी दाहिणड्डूभरहवासस्स बहुमज्झदेसभागं गंता पुरत्थाभिमुही आवत्ता समाणी चउदसहिं सलिलासहस्सेहिं समग्गा अहे जगइं दालइत्ता पुरत्थिमेणं लवणसमुद्दं समप्पेइ .... [ सूत्र. ९४] ॥ किंभूता द्वादशाङ्गी नदी ? उत्पत्तिस्थितिसंहृतित्रिपथगा - उत्पत्तिश्च स्थितिश्च संहृतिश्च उत्पत्तिस्थितिसंहृतयः । उपण्णे वा विगमे वा [ धुवे वा] इत्यागमवचनश्रवणात् । उत्पादः केवलो नास्ति, स्थिति-विगमरहितत्वात्, कूर्मरोमवत् । तथा विनाशः केवलो नास्ति, स्थित्युपप (त्प) त्ति - रहितत्वात्, तद्वत् । एवं स्थिति: केवला नास्ति, विनाशोत्पादशून्यत्वात्, तद्वदेव । इत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथा च कथं नैकं त्र्यात्मकम्, यदूचे — प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते, पुत्रः प्रीतिमुवाह कामपि नृपः शिश्राय मध्यस्थताम् । पूर्वाकारपरिक्षयस्तदपराकारोदयस्तद्द्वया धारश्चैक इति स्थितिं (तं) त्रयमयं तत्त्वं तथाप्रत्ययात् ॥१॥ [स्याद्वादमुक्तावली, श्लो. १८ ] ताः, एवं त्रिपथं-त्रयाणां पथां समाहारस्त्रिपथम् । ‘ऋक्यूरब्धूः पथामानक्षे’ [पाणिनी० ५।४।७४] इति अप्रत्ययः समासान्तः, तद् गच्छति प्राप्नोति उत्पत्तिस्थितिसंहृतित्रिपथगा । अन्याऽपि प्रथमं वामनावतारोर्ध्वचरणक्षेपोपरितनब्रह्माण्डकटाहनखाघातस्फोटननिःसृतब्रह्मजलानन्तरधातृकमण्डलुजल रूपधर्मवामनचरणप्रवाहीभूतगङ्गा श्रीमहादेवेन धृता । सा च भगीरथप्रार्थनया श्रीमहादेवेन जटायाः सकाशात् स्वर्गमार्गेण हिमाचलमागता मुक्ता, जनुना नृपेण पाता, तमो जङ्घामार्गेण मुक्ता सा च काश्यादौ हरिद्वारादौ च स्थिता । स्वर्गे मन्दाकिनी, अत्र जाह्नवी, पाताले भोगवतीति त्रिपथगा भवत्येव । तथा या ज्ञानाम्बुधौ-ज्ञानसमुद्रे, अध्वगेवाध्वनीनेव अध्वगा ज्ञानसमुद्रं प्राप्तेत्यर्थः । अन्याऽपि
SR No.229537
Book TitleBe Aprakat Stuti Tika
Original Sutra AuthorN/A
AuthorSuyashchandravijay, Sujaschandravijay
PublisherZZ_Anusandhan
Publication Year
Total Pages11
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size255 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy