Book Title: Atimuktak Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
Catalog link: https://jainqq.org/explore/600407/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्रीजिनायनमः // OSDEOSSSSSSSSSSSOCISIO // श्रीअतिमुक्तचरित्रम् // (कर्ता श्रीशुभशीलगणी) गद्यबद्धं. 0000 सने 1934 छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) सर्वत् 1991 किंमत रु. 0-6-0 र श्रीजन भास्करोदय प्रिन्टिंग प्रेसमा छाप्यु---जामनगर." 00000000000000000000 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ अतिमुक्त चरित्रं % ERSaxe ACCORॐक) // श्रीजिनाय नमः // // श्री चारित्रविजयगुरुभ्यो नमः // // अथ श्रीअतिमुक्तमुनिचरित्रं प्रारभ्यते // (कर्ता-श्री शुभशीलगुणी) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज जामनगरवाळा) ___ कृतानेकतमस्कोऽपि / निजं निंदन सुभावतः // ईर्यापथिकया सिद्धो / यतिमुक्तो महामुनिः॥१॥ | पेढालाख्ये पुरे महानगरे श्रीविजयाभिधो राजा राज्यं चकार, तस्य सच्छीलशालिनी श्रीमत्यभिधा राज्ञी | बभूव. तो द्वावपि दंपती जैनधर्मकुशलावास्तां, दानशीलतपोभावनापूजाप्रभावनाऽमारीघोषणासप्तक्षेत्रीस्व- || धनवापादिपुण्यकार्य कुरुतः स्म. यतः-स्वल्पश्रीसंयुता येऽपि / दानं कुर्वत्यनेकधा // स्वशक्तिं प्रकटीकृत्य / ते धन्या दानिनां मताः // 1 // रोगक्लेशमदोन्मादेः / सर्वदुःखपरीषहैः // स्वीकृतं ये न मुंचंति। व्रतं स्यु- 10 है स्ते बुधैः स्तुताः // 2 // क्रमाद्धर्मकार्याणि कुर्वतोस्तयोरेकः शुभलक्षणोपेतः सुतोऽभूत , तस्य पुत्रस्य ज- 181 Page #4 -------------------------------------------------------------------------- ________________ अतिमुक्त चरित्रं // 2 // // 2 // [4] न्मोत्सवं कृत्वा राज्ञा अतिमुक्त इति नाम दत्तं. एवं क्रमेण स बालो वृद्धिं प्राप्नुवन अष्टवार्षिको जातः. एकदासौ समवयस्करन्यैः बालैः समं रथ्यायां रममाणोऽभूत् . इतो गाचरचर्यायै तत्र विचरंतं श्री गौतमस्वामिनं गणधरेंद्रं दृष्ट्वा सोऽतिमुक्तकुमारो हृष्टः सन् प्रणम्य प्राह, हे भगवन् ! के यूयं ? किमर्थ चात्र विचरथ ? तैरुनं वयं श्रमणाः स्मः, शुद्धाहारलाभार्थं च विहरामः. अतिमुक्तेनोक्तं, भगवन् ! तर्हि मदीयगृहे समागच्छत? मे माता युष्मभ्यं शुद्धाहारं दास्यति, इत्युक्त्वा तदीयांगुलीलग्नः स गौतमस्वामिनं निजगृहे समानयत्. श्रीमत्यपि भगवंतं श्रीगौतमस्वामिनं समागतं दृष्ट्वाऽतीवहृष्टा शुद्वाहारैः प्रत्यलाभयत. अथ ततो निवृत्य गच्छंतं श्रीगौतमस्वामिनमनुगम्य अतिमुक्त उवाच, भगन्नहं भवादृशो भवितुमिच्छामि, तदा गौतमेनोक्तं, भो अतिमुक्तक ! त्वमद्यापि बालोऽसि, जैनदीक्षा च दुष्करास्ति, अतस्त्वया- व्रतपालनं सुष्करं संभाव्यते, यतः-तपःक्रियामनोगुप्ति-विनयादिसुकर्मभिः॥ चारित्रं दुष्कर बाल्ये / जायते नात्र संशयः // 1 // तत् श्रुत्वा अतिमुक्तेनोक्तं, भगवन् ! नाहं बालः, नूनमहं महाव्रतस्वीकारेण भवाइशो भविष्यामि, अतो मां वदत? यूयं कुत्र वसथ? यथाहं भवद्भिः सह तत्रागच्छामि. -5-04xॐॐॐROGR Page #5 -------------------------------------------------------------------------- ________________ ट्रक श्रीगौतमेनोक्तं, ममाचार्याः श्रीवीरजिनेंद्रा अत्र पुरोद्याने निवसंति, वयमपि तैः सार्ध तत्रैव वसामः, इति अतिमुक्तला श्रुत्वा स चालोऽप्यतिमुक्तः तेन सह श्रीवीरजिनालंकृते पुरोयाने समागतः. गौतमयुक्तस्तत्रा-गत्य त्वति चरित्रं मुक्तको जिनं नत्वा // धर्म श्रुत्वा बुद्धो / गृहमागत्याब्रवीत् पितरो // 1 // हे मातः! हे पितः! अद्य मया पुरोद्यानं गतेन श्रीवीरप्रभोर्मुखात धर्मश्रवणं कृतं. अतोऽहमस्मादतिघोरस्वरूपात् संसारादुद्विग्नोऽस्मि, तेन मम दीक्षाग्रहणार्थमनुमन्येथां. मातापितृभ्यां प्रोक्तं, हे वत्स ! त्वया कथमेवमुच्यते? त्वमेक एवावयोः पुत्रोऽसि. राज्यस्यास्य क आधारो भविष्यति ? किं चास्मकं वृद्धत्वे स्वमेवाधारो भविष्यसि. अधुना त्वावयो / रेव दीक्षाग्रहणावसरोऽस्ति. त्वं त्वधुना बालोऽसि, भागवती दीक्षा च सुदुष्करा विद्यते. तत श्रुत्वा अतिमुक्तकः प्राह, भोः पितरौ! किं ज्ञायते! को वृद्धः? कश्च लघुः? संसारे सर्वेषामनित्यत्वमेव संभाव्यते. कः कस्य पुत्रोऽस्ति ? संसारे भ्रमतां जीवानां बहवः संबंधा बहुषु भवेषु जाताः संति. परं न कोऽपि कस्यापि शरणं यतः-माया पियरो भाया। भज्जा पुत्ता य मित्त धणनिवहा // न य सरणं संसारे। जीवाणं मुत्तु जिण वयणं // 1 // यः पिता स हि पुत्रः स्यात् / यः पुत्रः स पिता भवेत् // यः पुत्रः स भवेन्माता। ककनaxEAR RREGNऊऊऊपर Page #6 -------------------------------------------------------------------------- ________________ अतिमुक्त मूल चरित्रं // 4 // // 4 // ॐ-04XE या माता स सुतो भवेत् // 2 // एवं भवे भवेऽनेक-संबंधाः कर्मयोगतः // जायंते देहिनां तेन / कः पुत्रः कः पितोच्यते // 3 // किंच-संसारंमि असारे / नत्थि सुहं वाहिवेयणापउरे // जाणतो इह जीवो / न कुणइ जिणदेसियं धम्मं // 4 // एवं मातापितरावनुज्ञाप्य सोऽतिमुक्तकुमारो महोत्सवपूर्वकं श्री-|| ला गौतमस्वामिहस्तेन प्रव्रज्यां जग्राह. एवं श्रीगोतमस्वाम्यादिष्टां चारित्रक्रियां कुर्वन् हृष्टचित्तःसन् सोऽतिमुक्तमुनिः शुद्धं सयमं आराधयतिस्म. अर्थकदा गोचरचर्यया कस्मिंश्चिद्ग्रामे भ्रमन् सोऽतिमुक्तको मुनि || रेकया वृद्धया हसंत्या प्रोक्तः, भो क्षुल्लकमुने! किं त्वया सकाले एव उत्सूरः कृतः? किं ज्ञात्वा त्वयास्मिन् बाल्यवयस्येव चारित्रं गृहीतं ? एवमपूर्ववाण्या निजहृद्यतीवचमत्कृतः स क्षुल्लकोऽतिमुक्तमुनिः / प्राह-यज्जानामि तन्न जानामि. तत् श्रुत्वा सविलक्षं चमत्कृतया तया वृद्धया तदुक्तोत्तरभावार्थमजानंत्या | प्राक्तं ? भो क्षुल्लकमुने! त्वया कि प्रानं ? अहं त्वदुक्तवचनतत्त्वार्थ ज्ञातुमशक्कास्मि. तदा स क्षुल्लकोऽपि निजोक्तवचनतत्त्वार्थ जगौ, भो वृजे! व्रतग्रहणे सकाले बाल्येऽपि के उत्सूरं कुर्यात? यत जानामि, तन्मरणं क्वापि वयसि निश्चितं भविष्यतीति, इति मया संसारदुःखमुक्त्यर्थ सकालेऽपि बाल्ये व्रतं गृहीतमस्ति. Page #7 -------------------------------------------------------------------------- ________________ - मूल उत्सूरस्तु सः कालस्तदैव ज्ञायते, यदाज्ञानं भवति. तत ज्ञानं तु ममाद्यापि प्राप्तं नास्ति, इति मढक्तवचअतिमुक्त ला नतत्वार्थो ज्ञेयः. तदुत्तरं भुत्वा तया वृद्धया चमत्कृतया हृदि चिंतितं, अहो! अनेन क्षुल्लकेनापि मुनिना चरित्रं सत्यमेव प्रोक्तं. इति विचित्य तया श्राविकया तस्यातिमुक्तमुनेः पावे हास्यकृतस्वापराधक्षमायाचनपूर्व सम्यक्त्वमूलानि द्वादश श्राद्धव्रतानि स्वीकृतानि. अतिमुक्तक्षुल्लकोऽपि शुद्धान्नपानं विहृत्य धर्मशालायां हैं। गतः. अथैकदा स क्षुल्लकः कश्चिन्मुनिभिः साधं देहचिंताथ बहि मो गतः, तत्र वर्षाकालत्वात् कानिचिल्लघुपल्बलानि जलापूर्णान्यासन्. तेषु जलपूर्णपल्वलेषु नागरिकबालाः स्वस्वपत्रप्रवहणानि तारयंतःकोडया- I मासुः. एवं क्रीडतस्तान् बालान्द दृष्ट्वा सोऽतिमुक्तमुनिवरोऽपि निजबाल्यचापल्यस्वभावतः स्वकीयकाष्टतर्पिणीपात्रं तेषु पल्वलेषु तारयन् तैर्बालैः सह क्रीडां कतुं प्रवृत्तः, कथयामास च भो बालाः! पश्यत ? पश्यत! ममापीयं नोर्जले तरतीति. एवं बालैः सह क्रीडतं तं दृष्ट्वा ते स्थविरमुनयस्तं निवार्य तेन सह पुनरुपाश्रये | समाजग्मुः ततः प्रातरायश्यकं विधाय ते सर्वेऽपि मुनयोऽतिमुक्तकसंयुक्ताः श्रीमहावीरप्रभुपाचे समाययुः, तत्र च प्रभुं प्रदक्षिणीकृत्य प्रणम्य च सर्वे विनयावनभ्रास्तमतिमुक्तक्षुल्लकं पुरस्कृत्य प्रभुं विज्ञपयामासुः, RECEREscaxsce-k ACaxeॐॐॐॐॐ Page #8 -------------------------------------------------------------------------- ________________ अतिमुक्त चरित्रं // 6 // ला है भगवन् ! अयमतिमुक्तः शिशुत्वात दीक्षायै अनर्हः संभाव्यते, इत्युक्त्वा तेः ह्यस्तनदिनदृष्टं तस्य बालचेष्टितं प्रभोरग्रे निवेदितं. तन्निशम्य केवलज्ञानज्ञातसर्व चराचरस्वरूपेण भगवता प्रोक्तं. भो मनयः! एतस्य बालस्यापि क्षुल्लकमुनेराशातनां यूयं मा कुरुत ? अधुनैवायं केवलज्ञानमाप्स्यति. तत् श्रुत्वा ते गौतमायाः सर्वेऽपि मुनयः विस्मयं प्राप्ताः. इतः सोऽतिक्तमुक्षुल्लकमुनिरपि समवसरणे जगद्गुरोः पुरः शुभवाप्तनया प्रायश्चित्तरूपामोर्यापथिकी प्रतिक्रमन् “दगमट्टी” इति शब्दमुच्चरन् पृथ्वीकायाप्कायिकादिजीवान् क्षामयन् तदेव केवलज्ञानं समवाप, तदा गौतमादिमुनिसमुदायेष्वाश्चर्य प्राप्तेषु देवास्तस्य क्षु- ! हल्लककेवलिनो महोत्सवं विदधुः. यतः--प्रणिति क्षणार्धेन / साम्यमालंब्य कर्म तत् // यन्न हन्यान्नरस्तीव-तपसा जन्मकोटिभिः // 1 // मन एव मनुष्याणां। कारणं बंधमोक्षयोः॥ यथैवार्लिग्यते पत्नी / तथेवालिंग्यते सुता // 2 // अथ स केवलज्ञानालंकृतो नववार्षिकः क्षुल्लकोतिमुक्तमुनिः पृथ्टयां विरहन भव्य वांश्च प्रतिबोधयन् प्रतिदेश, प्रतिनगरं, प्रतिग्रामं च जनगणान् विस्मापयामास, एवं विरहन सोऽतिमुक्तकेवली एकदा सूर्यपुरस्य बहिरुद्याने समवसृतः, तत्र जितशत्रुनामा नृपतिरनेकनरनारीगणोपेतस्तं केव CaxeAE%ॐॐॐॐ Page #9 -------------------------------------------------------------------------- ________________ IN अतिमुक्त चरित्रं // 7 // // 7 // लिनं वंदितुं समायातः. केवलिनः प्रदक्षिणां विधाय तदीयधर्मदेशनां श्रोतुं च सोऽग्रे समुपाविशत्. सर्वे नरनारीगणा अपि यथास्थानं तत्र समुपविष्टाः. अतिमुक्तकेवलिनापि धर्मदेशना प्रारब्धा. तद्यथाआयुर्वायुचलं सुरेश्वरधनुलोलं बलं यौवनं / विद्युदंडतुलं धनं गिरिनदीकल्लोलवच्चंचलं // यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा / तावद्धर्मफलाप्तये जनगणेः कार्यः प्रयत्नः शुभः // 1 // यावच्चेंद्रियशक्तिरप्र. तिहता यावत्क्षयो नायुषो / यावद्रोगगणोऽपि नेह कुरुते स्वांगंजना जर्जरं // स्वीयश्रेयसि तावदेव विदुषा कार्यःप्रयत्नो महान् / संदीप्ते भुवने तु कूपखननं प्रत्युद्यमः कीदृशः // 2 // जंतुनामवनं जिनेशनमनं भक्त्योगमाकर्णनं ! साधूनां नमनं मदापनयनं सम्यग्गुरोर्माननं // मायाया हननं क्रुधश्च शमनं लोभद्रुमोन्मूलनं / चेतः शोधनर्मिद्रियार्थदमनं यत्तच्छिवोपायनं // 3 // एवंविधां केवलिनो धर्मदेशनां श्रुत्वा प्रतिबुद्धो जितशत्रुराजा सम्यक्त्वमूलद्वादशश्राद्धव्रतानि जग्राह. अन्येऽपि बहवो लोकाः भद्रकभावयुताः सम्यक्त्वं प्रापुः. एवं कियत्कालं विहृत्य सोऽतिमुक्तकेवली प्रांते मोक्षं ययौ. // इति श्रीअतिमुक्तमुनिचरित्रं समाप्तं // श्रीरस्तु // Cax5545 Page #10 -------------------------------------------------------------------------- ________________ DESISESSISBIGISISIBIDIS DISSIS DEEEE 955555555555555555555555 इति श्रीअतिमुक्तचरित्रं समाप्तम् इति श्रीमतिमुक्तचरित्रं समाप्तम् DOOD0000 555555555555555555555फ DESISISSISODEISSIOSISSIRIDIES