SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ अतिमुक्त चरित्रं // 2 // // 2 // [4] न्मोत्सवं कृत्वा राज्ञा अतिमुक्त इति नाम दत्तं. एवं क्रमेण स बालो वृद्धिं प्राप्नुवन अष्टवार्षिको जातः. एकदासौ समवयस्करन्यैः बालैः समं रथ्यायां रममाणोऽभूत् . इतो गाचरचर्यायै तत्र विचरंतं श्री गौतमस्वामिनं गणधरेंद्रं दृष्ट्वा सोऽतिमुक्तकुमारो हृष्टः सन् प्रणम्य प्राह, हे भगवन् ! के यूयं ? किमर्थ चात्र विचरथ ? तैरुनं वयं श्रमणाः स्मः, शुद्धाहारलाभार्थं च विहरामः. अतिमुक्तेनोक्तं, भगवन् ! तर्हि मदीयगृहे समागच्छत? मे माता युष्मभ्यं शुद्धाहारं दास्यति, इत्युक्त्वा तदीयांगुलीलग्नः स गौतमस्वामिनं निजगृहे समानयत्. श्रीमत्यपि भगवंतं श्रीगौतमस्वामिनं समागतं दृष्ट्वाऽतीवहृष्टा शुद्वाहारैः प्रत्यलाभयत. अथ ततो निवृत्य गच्छंतं श्रीगौतमस्वामिनमनुगम्य अतिमुक्त उवाच, भगन्नहं भवादृशो भवितुमिच्छामि, तदा गौतमेनोक्तं, भो अतिमुक्तक ! त्वमद्यापि बालोऽसि, जैनदीक्षा च दुष्करास्ति, अतस्त्वया- व्रतपालनं सुष्करं संभाव्यते, यतः-तपःक्रियामनोगुप्ति-विनयादिसुकर्मभिः॥ चारित्रं दुष्कर बाल्ये / जायते नात्र संशयः // 1 // तत् श्रुत्वा अतिमुक्तेनोक्तं, भगवन् ! नाहं बालः, नूनमहं महाव्रतस्वीकारेण भवाइशो भविष्यामि, अतो मां वदत? यूयं कुत्र वसथ? यथाहं भवद्भिः सह तत्रागच्छामि. -5-04xॐॐॐROGR
SR No.600407
Book TitleAtimuktak Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages10
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy