SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ट्रक श्रीगौतमेनोक्तं, ममाचार्याः श्रीवीरजिनेंद्रा अत्र पुरोद्याने निवसंति, वयमपि तैः सार्ध तत्रैव वसामः, इति अतिमुक्तला श्रुत्वा स चालोऽप्यतिमुक्तः तेन सह श्रीवीरजिनालंकृते पुरोयाने समागतः. गौतमयुक्तस्तत्रा-गत्य त्वति चरित्रं मुक्तको जिनं नत्वा // धर्म श्रुत्वा बुद्धो / गृहमागत्याब्रवीत् पितरो // 1 // हे मातः! हे पितः! अद्य मया पुरोद्यानं गतेन श्रीवीरप्रभोर्मुखात धर्मश्रवणं कृतं. अतोऽहमस्मादतिघोरस्वरूपात् संसारादुद्विग्नोऽस्मि, तेन मम दीक्षाग्रहणार्थमनुमन्येथां. मातापितृभ्यां प्रोक्तं, हे वत्स ! त्वया कथमेवमुच्यते? त्वमेक एवावयोः पुत्रोऽसि. राज्यस्यास्य क आधारो भविष्यति ? किं चास्मकं वृद्धत्वे स्वमेवाधारो भविष्यसि. अधुना त्वावयो / रेव दीक्षाग्रहणावसरोऽस्ति. त्वं त्वधुना बालोऽसि, भागवती दीक्षा च सुदुष्करा विद्यते. तत श्रुत्वा अतिमुक्तकः प्राह, भोः पितरौ! किं ज्ञायते! को वृद्धः? कश्च लघुः? संसारे सर्वेषामनित्यत्वमेव संभाव्यते. कः कस्य पुत्रोऽस्ति ? संसारे भ्रमतां जीवानां बहवः संबंधा बहुषु भवेषु जाताः संति. परं न कोऽपि कस्यापि शरणं यतः-माया पियरो भाया। भज्जा पुत्ता य मित्त धणनिवहा // न य सरणं संसारे। जीवाणं मुत्तु जिण वयणं // 1 // यः पिता स हि पुत्रः स्यात् / यः पुत्रः स पिता भवेत् // यः पुत्रः स भवेन्माता। ककनaxEAR RREGNऊऊऊपर
SR No.600407
Book TitleAtimuktak Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1934
Total Pages10
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy