________________ - मूल उत्सूरस्तु सः कालस्तदैव ज्ञायते, यदाज्ञानं भवति. तत ज्ञानं तु ममाद्यापि प्राप्तं नास्ति, इति मढक्तवचअतिमुक्त ला नतत्वार्थो ज्ञेयः. तदुत्तरं भुत्वा तया वृद्धया चमत्कृतया हृदि चिंतितं, अहो! अनेन क्षुल्लकेनापि मुनिना चरित्रं सत्यमेव प्रोक्तं. इति विचित्य तया श्राविकया तस्यातिमुक्तमुनेः पावे हास्यकृतस्वापराधक्षमायाचनपूर्व सम्यक्त्वमूलानि द्वादश श्राद्धव्रतानि स्वीकृतानि. अतिमुक्तक्षुल्लकोऽपि शुद्धान्नपानं विहृत्य धर्मशालायां हैं। गतः. अथैकदा स क्षुल्लकः कश्चिन्मुनिभिः साधं देहचिंताथ बहि मो गतः, तत्र वर्षाकालत्वात् कानिचिल्लघुपल्बलानि जलापूर्णान्यासन्. तेषु जलपूर्णपल्वलेषु नागरिकबालाः स्वस्वपत्रप्रवहणानि तारयंतःकोडया- I मासुः. एवं क्रीडतस्तान् बालान्द दृष्ट्वा सोऽतिमुक्तमुनिवरोऽपि निजबाल्यचापल्यस्वभावतः स्वकीयकाष्टतर्पिणीपात्रं तेषु पल्वलेषु तारयन् तैर्बालैः सह क्रीडां कतुं प्रवृत्तः, कथयामास च भो बालाः! पश्यत ? पश्यत! ममापीयं नोर्जले तरतीति. एवं बालैः सह क्रीडतं तं दृष्ट्वा ते स्थविरमुनयस्तं निवार्य तेन सह पुनरुपाश्रये | समाजग्मुः ततः प्रातरायश्यकं विधाय ते सर्वेऽपि मुनयोऽतिमुक्तकसंयुक्ताः श्रीमहावीरप्रभुपाचे समाययुः, तत्र च प्रभुं प्रदक्षिणीकृत्य प्रणम्य च सर्वे विनयावनभ्रास्तमतिमुक्तक्षुल्लकं पुरस्कृत्य प्रभुं विज्ञपयामासुः, RECEREscaxsce-k ACaxeॐॐॐॐॐ