Book Title: Yatidincharya Vruttini Gaveshana Author(s): Pradyumnasuri Publisher: ZZ_Anusandhan View full book textPage 3
________________ अज्ञातकृत वृत्ति 'यतिदिनचर्यांनी टीकावाळी प्रतना पहेला पानानी पहेली पूंठी उपरना पाठनो आ उतारो छे. प्रत नं. ११२५४. आ पाठ डेलानी प्रतमा पहेला पानानी आगळ छे. पोर्णु पानुं लखेलुं छे. श्रेयांसि बहुविधानि महतामपीति कृतमगलोपचारैरेव शास्त्रादौ प्रवर्तितव्यम् । तन्मङ्गलं नामादिभेदतश्चतुर्विधम् । तद्यथा - नाममङ्गलं स्थापनामङ्गलं दव्यमङ्गलं भावमङ्गलं चेति । यन्मङ्गलार्थशून्यानां जीवाजीवोभयानां ज्वलनादीनां देशीभाषया मङ्गलमिति नाम रूढम् । तत्र जीवस्याग्रेर्मङ्गलमिति नाम रूढं सिन्धुविषये, अजीवस्य दवरकचलनकस्य मङ्गलमिति नाम रूढं लाटदेशे, जीवाजीवोभयस्य सु-मङ्गलमिति नाम रूढं चन्दनमालाया दवरिकादीनामचेनत्वात् पत्रादीनां सचेतनत्वाज्जीवाजीवोभयत्वं नवं वा क्रियते तद् वस्तु = नाम्ना नाममात्रेण मङ्गलमिति कृत्वा = नाममङ्गलं स्वस्तिकादीनां तु या स्थापना लोके सा स्थापना मङ्गलं चित्रकर्मादि गतः परममुन्यामपि स्थापनामङ्गलम्। द्रव्यमङ्गलं द्विधा आगमतो नोआगमतश् चात्रागमो मङ्गलशब्दार्थज्ञानरूपोऽभिप्रेतस्तदावरणक्षयोपशमवानपि यो मङ्गलशब्दार्थेऽनुपयुक्तः स आगमतो दव्यमङ्गलमनुपयोगो द्रव्यमिति वचनात् नो आगमतस्तु तद् ज्ञशरीर भव्यशरीर-तद्वयतिरिक्तभेदात् त्रिविधं तत्राद्ये निगदसिद्धे तया जिनप्रणीता मङ्गल्या प्रत्युपेक्षणादि क्रिया अनुपयुक्तेन क्रियते सा अथवा शोभनवर्णादिगुणविशिष्ट सुवर्णरत्नदध्यक्षतकुसुममङ्गलकलशादिकं तत्सर्वं तद्वयतिरिक्तं नो आगमतो द्रव्यमङ्गलम् भावमङ्गलमपि द्विविधं आगमतो नोआगमतश्च । तत्रागमतस्तावन्मङ्गलपदार्थज्ञ उपयुक्तश्च । नोआगमतस्तु आगमवर्जज्ञानचतुष्टयं दर्शनचरित्रणि चाथवा प्रतिक्रमणप्रत्युपेक्षणादिक्रियां कुर्वाणस्य यो ज्ञानदर्शनचारित्रोपयोगपरिनणामः सतो आगमतो भावमङगलमुच्यते । तदत्रचतुर्विधेषु मङ्गलेष्वाधत्रयमनुपयोगित्वात् अनादृत्य शास्त्रारम्भे शास्त्रकारः विघ्नविघातकं द्वितीयं तु भावमङ्गलरूपं शुभं कर्म - साध्वादेः स्तुतिद्वारेणोपन्यसन्नाह-तं जयइ ति तत् शुभं प्रशस्तं निरवद्यत्वात् कर्मचरणाद्यासेवनं जयति प्रकर्षवत्तया व्याप्नोति यत्तदोर्नित्यसम्बन्धात् यत् शब्दघटनामाह-यत् कर्म निम्मिअसम्म जयम्मि त्ति पूर्वगुणस्थानकापेक्षया जयो रागादेर्येन सः निर्मितसम्यक्जयस्तस्मिन्नथवा सम्यक् चासौ जयश्च सम्यग्जयः स तु बाह्यारिजयापेक्षया आन्तरारिजय एव निर्मितः सम्यग्जयोपेतः स नि० तस्मिन् साधौ अविरामं ति विलम्वरहितमप्रमादेन यथासमयं यथाकालं साधुभिरासेव्यमानत्वात् प्रेक्षमाणो विलोकयन् अद्यापि सूरो विश्रामं न करोति साधुवदहमपि सर्वजन्तुहितदायि कर्म समाचरेयमित्यभिप्रायेण सूरोऽविलम्बेन क्षेत्र प्रकाशयन चरतीतिशास्त्रकर्त्रेत्प्रेक्षितोऽर्थः । ननु शुभकर्मानुष्ठानं कथं नोआगमतो भावमङ्गलम् । को नाम मङ्गलपदार्थः । उच्यते भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सोडत्र प्रत्युपेक्षणादिकर्मोपयोगरूपो भावो विवक्षितोऽस्ति नोशब्दोऽस्यात्र देशवाची क्रियामिश्रत्वात्। [६०] Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5