Book Title: Vivagsuyam
Author(s): Madhusudan Modi
Publisher: Gurjar Granth Ratna Karyalay

Previous | Next

Page 256
________________ ॥ विपाकसूत्रवृत्तिः ॥ त्वा श्रीवर्धमानाय, वर्द्धमानश्रुताध्वने । विपाकश्रुतशास्त्रस्य वृत्तिकेयं विधास्यते ॥ १ ॥ [ पृ. ३ ] विपाकश्रुतमिति कः शब्दार्थः । उच्यते, विपाकःपुण्यपापरूपकर्मफलं ' तत्प्रतिपादनपरं श्रुतं - ' आगमो' विपाकश्रुतम् । इदं च द्वादशाङ्गस्य प्रवचनपुरुषस्यैकादशमङ्गं । इह च शिष्टसमयपरिपालनार्थं मङ्गलसम्बन्धाभिधेयप्रयोजनानि किल वाच्यानि भवन्ति । तत्र चाधिकृतशास्त्रस्यैव सकलकल्याणकारि सर्ववेदिप्रणीतश्रुतरूपतया भावनन्दीरूपत्वेन मङ्गलस्वरूपात् न ततो भिन्नं मङ्गलमुपदर्शनीयम् 1 अभिधेयं च शुभाशुभकर्मणां विपाकः, स चास्य नाम्नैवाभिहितः । प्रयोजनमपि श्रोतृगतमनन्तरं कर्म्मविपाकावगमरूपं नाम्नैवोक्तमस्य । यत्किल कर्मविपाकावेदकं श्रुतं तत् शृण्वतां प्रायः कर्मविपाकावगमो भवत्येवेति, यत्तु निःश्रेयसावाप्तिरूपं परम्पराप्रयोजनमस्य तदाप्तप्रणीततयैव प्रतीयते । नं ह्याप्ता यत्कथञ्चिन्निःश्रेयसार्थं न भवति तत्प्रणयनायोत्सहन्ते आप्तत्वहानेरिति । सम्बन्धोऽप्युपायोपेयभावलक्षणो नाम्नैवास्य प्रतीयते । तथाहिइदं शास्त्रमुपायः कर्म्मविपाकावगमस्तूपेयमिति । यस्तु गुरुपर्वक्रमलक्षणसम्बन्धोऽस्य तत्प्रतिपादनायेदमाह । "

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378