________________
॥ विपाकसूत्रवृत्तिः ॥
त्वा श्रीवर्धमानाय, वर्द्धमानश्रुताध्वने । विपाकश्रुतशास्त्रस्य वृत्तिकेयं विधास्यते ॥ १ ॥
[ पृ. ३ ] विपाकश्रुतमिति कः शब्दार्थः । उच्यते, विपाकःपुण्यपापरूपकर्मफलं ' तत्प्रतिपादनपरं श्रुतं - ' आगमो' विपाकश्रुतम् । इदं च द्वादशाङ्गस्य प्रवचनपुरुषस्यैकादशमङ्गं । इह च शिष्टसमयपरिपालनार्थं मङ्गलसम्बन्धाभिधेयप्रयोजनानि किल वाच्यानि भवन्ति । तत्र चाधिकृतशास्त्रस्यैव सकलकल्याणकारि सर्ववेदिप्रणीतश्रुतरूपतया भावनन्दीरूपत्वेन मङ्गलस्वरूपात् न ततो भिन्नं मङ्गलमुपदर्शनीयम् 1 अभिधेयं च शुभाशुभकर्मणां विपाकः, स चास्य नाम्नैवाभिहितः । प्रयोजनमपि श्रोतृगतमनन्तरं कर्म्मविपाकावगमरूपं नाम्नैवोक्तमस्य । यत्किल कर्मविपाकावेदकं श्रुतं तत् शृण्वतां प्रायः कर्मविपाकावगमो भवत्येवेति, यत्तु निःश्रेयसावाप्तिरूपं परम्पराप्रयोजनमस्य तदाप्तप्रणीततयैव प्रतीयते । नं ह्याप्ता यत्कथञ्चिन्निःश्रेयसार्थं न भवति तत्प्रणयनायोत्सहन्ते आप्तत्वहानेरिति । सम्बन्धोऽप्युपायोपेयभावलक्षणो नाम्नैवास्य प्रतीयते । तथाहिइदं शास्त्रमुपायः कर्म्मविपाकावगमस्तूपेयमिति । यस्तु गुरुपर्वक्रमलक्षणसम्बन्धोऽस्य तत्प्रतिपादनायेदमाह ।
"