SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ तेणं कालेण' मित्यादि, अस्य व्याख्या- तेणं कालेणं तेणं समएणं 'ति तस्मिन् काले तस्मिन् समये, णकारो वाक्यालङ्कारा. र्थत्वात् एकारस्य च प्राकृतभवत्वात् । कालसमययोः को विशेषः ? उच्यते, सामान्यो वर्तमानावसर्पिणीचतुर्थांरकलक्षणः कालो विशिष्टः पुनस्तदेकदेशभूतः समय इति, अथवा तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव । ' होत्थ' त्ति अभवत् , यद्यपि इदानीमध्यस्ति सा नगरी तथाऽप्यवसर्पिणीकालस्वभावेन हीयमानत्वाद्वस्तुस्वभावानां वर्णकग्रन्थोक्तस्वरूपा सुधर्मस्वामिकाले नास्तीति कृत्वाऽतीतकालेन निर्देशः कृतः। 'वण्णओ 'त्ति 'रिद्धिस्थिमियसमिद्धे' त्यादि वर्णकोऽस्या अवगन्तव्यः, स चौपपातिकवद् द्रष्टव्यः । 'पुन्नभद्दे चेइए' ति पूर्णभद्राभिधाने 'चैत्ये' व्यन्तरायतने । ' अहापडिरूवं जाब विहरइ 'त्ति अनेनेदं सूचितं द्रष्टव्यम्-" अज्जसुहम्मे थेरे अहापडिरूवं उग्गिहइ अहा. उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ " तत्र येन प्रकारेण प्रतिरूपः-साधूचितस्वरूपो यथाप्रतिरूपोऽतस्तमवग्रहं-आश्रयमिति 'विहरइ' आस्ते । 'जामेव दिसं पाउन्भूया' यस्या दिशः सकाशात् ' प्रादुर्भूता' प्रकटीभूता आगतेत्यर्थः ' तामेव दिसिं पडिगया' तस्यामेव दिशि प्रतिगतेत्यर्थः ।। 'सत्तुस्सेहे 'त्ति सप्तहस्तोत्सेधः सप्तहस्तप्रमाण इत्यर्थः ॥ 'जहा गोयमसामी तहा' इति यथा गौतमो भगवत्यां वर्णितः तथाऽयमिह वर्णनीयः । कियदूरं यावत् ? इत्याह-' जाव झाणकोट्टो 'त्ति ' झाणकोट्ठोवगए' इत्येतत्पदं यावदित्यर्थः , स
SR No.002313
Book TitleVivagsuyam
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy