________________
[३]
"
चायं वर्णकः - ' समचउरंस संठाण संठिए वज्जरिसहनारायसंधयणे ' त्ति विशेषणद्वयमपीदमागमसिद्धं ' कणगपुलगनिघसपम्हगोरे' कनकस्य - सुवर्णस्य यः पुलको -लवस्तस्य यो निकषः - कषपट्टे रेखालक्षणः तथा पम्ह 'त्ति पद्मगर्भस्तद्वद् गौरो यः स तथा, ' तत्ततवे ' तप्तं - तापितं तपो येन स तथा, एवं हि तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापितो यतोऽन्यस्यासंस्पृश्यमिव जातमिति, महातव प्रशस्ततपाः बृहत्तपा वा, ' उराले ' भीमः अतिकष्टतपः कारितया पार्श्ववर्त्तिनामल्पसत्त्वानां भयजनकत्वादुदारो वा प्रधान इत्यर्थः ' घोरः ' निर्घृणः परीषहाद्यरातिविनाशे “ अन्यैर्दुरनुचरगुणः ‘ घोरतवस्सी ' घेोरैस्तपोभिस्तपस्वी 'घोरबंभचेरवासी' घोरे - अल्पसत्त्वदुरनुचरत्वेन दारुणे ब्रह्मचर्ये वस्तुं शीलं यस्य स तथा उच्छूढसरी रे' उच्छूढम् - उज्झितमिव उज्झितं शरीरं येन तत्प्रतिकर्मत्यागात् ' संखित्तविउलते उलेस्से' संक्षिप्ता शरीरान्तर्वर्तिनीत्वाद्विपुला च - विस्तीर्णा अनेकयोजनप्रमाणक्षेत्रास्थितवस्तुदहनसमर्थत्वात् तेजोलेश्या - विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा 'उड्डुंजाणू ' शुद्रपृथिव्यासनवर्जनात् औपग्रहिकनिषयाया अभावाच उत्कटुकासनः सन्नुपदिश्यते ऊर्ध्वं जानुनी यस्य स ऊर्ध्वजानुः 'अहो - सिरो' अधोमुखो नोर्ध्वं तिर्यग्वा विक्षिप्तदृष्टिरिति भावः 'झाणकोट्ठोवगए ' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः स तथा ' विहरइ 'ति — संजमेणं तवसा अप्पाणं भावेमाणे विहरइ' इत्येवं दृश्यं, 'जायसड्डे' प्रवृत्तविवक्षितार्थश्रवणवाञ्छः यावत्करणादिदं दृश्यं ' जायसंसए' प्रवृ
6
9