Book Title: Vivagsuyam
Author(s): Madhusudan Modi
Publisher: Gurjar Granth Ratna Karyalay

Previous | Next

Page 305
________________ नाश्वस्येव करणमित्यर्थः तदभिधायकं शास्त्रम् , अल्पक्षीणविशुष्करेतसामाप्ययनप्रसादोपजनननिमित्तं प्रहर्षजनननिमित्तं प्रहर्षजननार्थ चेति ॥ ___'सिवहत्थे ' त्ति आरोग्यकरहस्तः 'सुहहत्थे ' त्ति शुभहस्त:प्रशस्तकरः सुखहेतुहस्तो वा 'लहुहत्थे ' त्ति दक्षहस्तः ।। ___ 'राईसर' इत्यत्र यावत्करणात् 'तलवरमाडंबियकोडुंबियसेट्टी' त्ति दृश्यं, 'दुब्बलाण य' त्ति कृशानां हीनबलानां वा 'गिलाणाणं य' त्ति क्षीणहर्षाणां शोकजनितपीडानामित्यर्थः ‘वाहियाण य' त्ति व्याधिः-चिरस्थायी कुष्ठादिरूपः स संजातो येषां ते व्याधिता व्यथिता वा-उष्णादिभिरभिभूता अतस्तेषां 'रोगियाणं' त्ति संजाताचिरस्थायिज्वरादिदोषाणां, केषामेवंविधानाम् ? इत्याह-'सणाहाण य' त्ति सस्वामिनाम् 'अणाहाण य' त्ति निःस्वामिनां 'समणाण य' त्ति गैरिकादीनां 'भिक्खगाण य' त्ति तदन्येषां 'करोडियाण य' त्ति कापालिकानाम् ‘आउराणं' त्ति चिकित्साया अविषयभूतानाम् 'अप्पेगइयाणं मच्छमंसाई उवइसति' इत्येतस्य वाक्यस्यानुसारेणाग्रेतनानि वाक्यानि ऊह्यानि, मत्स्याः कन्छपा ग्राहाः मकराः संसुमाराः अजाः एलकाः रोज्झाः शूकराः मृगाः शशकाः गावः महिषाः तित्तिराः वर्तकाः लावकाः कपोताः कुक्कुटाः मयूराश्च प्रतीताः । [प्र. ५३.] • मन्ने' त्ति अहमेवं मन्ये 'नियगकुच्छिसंभूताई' ति निजापत्यानीत्यर्थः, स्तनदुग्धे लुब्धकानि यानि तानि तथा, मधुरसमुल्लापकानि–मन्मनप्रजल्पितानि स्तनमूलात् कक्षादेशभागमभि

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378