Book Title: Vimalprabha Tika Part 02
Author(s): Samdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
Publisher: Kendriya Uccha Tibbati Shiksha Samsthan
View full book text ________________ पुरोवाक् विमलप्रभाया द्वितीयखण्डस्य संस्करणमिदं कालचक्रतन्त्रस्याभिषेक-साधनाख्य'तृतीय-चतुर्थ-पटलावधिकृत्य प्रणीतां टीकामन्तनिधत्ते। कृत्स्नं हि कालचक्रतन्त्रं स्रग्धरावृत्तनिबद्ध-सप्तचत्वारिंशदधिक-सहस्र-श्लोकयुतेषु पञ्चसु पटलेषु संविभक्तम् / तन्त्रस्यास्य भोटभाषानुवादगतमभिधानं यथा-परमादिबुद्धोद्धृत-श्रीकालचक्रनाम-तन्त्रराज इति ( देर्गे-तो० क्र० 362, 1346 ) / रघुवीर-लोकेशचन्द्राभ्यां सम्पादितयोः संस्कृत-भोट-पाठयोर्ग्रन्थाभिधानमपि समानमेव / ताभ्यां विश्वनाथबॅनर्जीमहोदयेन च सम्पादितयोः संस्कृतपाठयोः पुष्पिके एवं स्तः१. इति श्रीमदादिबुद्धोद्धृते श्रीकालचक्रे ( प्रथम-द्वितीय-तृतीय-चतुर्थ-पटलान्ते ) / [पाठभेदः-तृतीय-चतुर्थपटलान्ते- रघुवीर-लोकेशचन्द्र-संस्करणम् : कालचक्रे; बनर्जीसंस्करणम् : श्रीमहाकालचक्रे / 2. इति द्वादशसाहस्रादिबुद्धोद्धृते श्रीमति कालचक्रे ( पञ्चमपटलान्ते ) / [पाठभेदः-बॅनर्जीसंस्करणम् : द्वादशसाहस्रिकादि; श्रीमहाकालचक्रे ] / इदमस्माभिविमलप्रभातोऽवगम्यते यत् पुराकाले कालचक्रस्यास्य किमपि मूलतन्त्रमासीत् परमादिबुद्धनामधेयं यद् अनुष्टुप्छन्दोबद्धैादशसहस्रमितैः श्लोकैर्युक्तमासीत् / (द्र०-वि०प्र०, खण्डः 1, पृ०, 18, पङ्क्ती 1, 2) कृत्स्नं हि तत्तन्त्रं भोटभाषया, 1. रघुवीर-लोकेशचन्द्रसम्पादिते ( इण्टरनॅशनल अकादेमी ऑफ इण्डियन कल्चर, न्यू दिल्ली, 1966 ) विश्वनाथ-बॅनर्जीसम्पादिते (दि एशियाटिक सोसायटी, कलकत्ता, 1985 ) च संस्कृतपाठसंस्करणे 'साधन' इत्यभिधानं दृश्यते / बॅनर्जीसंस्करणे चतुर्थपटलस्य पुष्पिकायां 'साधना' इति पाठभेदो दृश्यते / विमलप्रभायां मनोगतामोदर पञ्च पटलानि परिगणितानि सन्ति, यत्र चतर्थं पटलं साधनपदेन व्यपदिष्टमस्ति (वि०प्र०, खण्डः 1, पृ० 12, पङ्क्तिः 12) / अपि च पञ्चपटलअभिधेयनिरूपणावसरे विमलप्रभा तत् पटलं साधनापदेन निर्दिशति (वि.प्र०.५० 14. पङ क्ती, 7, 13 च)। संस्करणेऽस्मिन् प्रदत्तं साधनापटलमित्यभिधानं तत्पटलटीकायाः (10 149, पङ्क्तिः 18), महोद्देशानां पुष्पिकाणां चाधारण प्रदत्तमस्ति / तत्र महोदेशानां पुष्पिकाणामधिकतमासु पुष्पिकासु साधनापटलमिति पदं लक्ष्यते / 2. श्रीतन्त्रं (लघुतन्त्रं ) स्रग्धरावृत्तनिबद्धः 1030 श्लोकैरुपनिबद्धमिति विमलप्रभाया मुक्तम् (वि० प्र०, पृ० 25, पङ्क्तिः 6) / द्र०-बॅनर्जी, उपरिनिर्दिष्टम्, भूमिका, पृ० 3 /
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 280