________________ पुरोवाक् विमलप्रभाया द्वितीयखण्डस्य संस्करणमिदं कालचक्रतन्त्रस्याभिषेक-साधनाख्य'तृतीय-चतुर्थ-पटलावधिकृत्य प्रणीतां टीकामन्तनिधत्ते। कृत्स्नं हि कालचक्रतन्त्रं स्रग्धरावृत्तनिबद्ध-सप्तचत्वारिंशदधिक-सहस्र-श्लोकयुतेषु पञ्चसु पटलेषु संविभक्तम् / तन्त्रस्यास्य भोटभाषानुवादगतमभिधानं यथा-परमादिबुद्धोद्धृत-श्रीकालचक्रनाम-तन्त्रराज इति ( देर्गे-तो० क्र० 362, 1346 ) / रघुवीर-लोकेशचन्द्राभ्यां सम्पादितयोः संस्कृत-भोट-पाठयोर्ग्रन्थाभिधानमपि समानमेव / ताभ्यां विश्वनाथबॅनर्जीमहोदयेन च सम्पादितयोः संस्कृतपाठयोः पुष्पिके एवं स्तः१. इति श्रीमदादिबुद्धोद्धृते श्रीकालचक्रे ( प्रथम-द्वितीय-तृतीय-चतुर्थ-पटलान्ते ) / [पाठभेदः-तृतीय-चतुर्थपटलान्ते- रघुवीर-लोकेशचन्द्र-संस्करणम् : कालचक्रे; बनर्जीसंस्करणम् : श्रीमहाकालचक्रे / 2. इति द्वादशसाहस्रादिबुद्धोद्धृते श्रीमति कालचक्रे ( पञ्चमपटलान्ते ) / [पाठभेदः-बॅनर्जीसंस्करणम् : द्वादशसाहस्रिकादि; श्रीमहाकालचक्रे ] / इदमस्माभिविमलप्रभातोऽवगम्यते यत् पुराकाले कालचक्रस्यास्य किमपि मूलतन्त्रमासीत् परमादिबुद्धनामधेयं यद् अनुष्टुप्छन्दोबद्धैादशसहस्रमितैः श्लोकैर्युक्तमासीत् / (द्र०-वि०प्र०, खण्डः 1, पृ०, 18, पङ्क्ती 1, 2) कृत्स्नं हि तत्तन्त्रं भोटभाषया, 1. रघुवीर-लोकेशचन्द्रसम्पादिते ( इण्टरनॅशनल अकादेमी ऑफ इण्डियन कल्चर, न्यू दिल्ली, 1966 ) विश्वनाथ-बॅनर्जीसम्पादिते (दि एशियाटिक सोसायटी, कलकत्ता, 1985 ) च संस्कृतपाठसंस्करणे 'साधन' इत्यभिधानं दृश्यते / बॅनर्जीसंस्करणे चतुर्थपटलस्य पुष्पिकायां 'साधना' इति पाठभेदो दृश्यते / विमलप्रभायां मनोगतामोदर पञ्च पटलानि परिगणितानि सन्ति, यत्र चतर्थं पटलं साधनपदेन व्यपदिष्टमस्ति (वि०प्र०, खण्डः 1, पृ० 12, पङ्क्तिः 12) / अपि च पञ्चपटलअभिधेयनिरूपणावसरे विमलप्रभा तत् पटलं साधनापदेन निर्दिशति (वि.प्र०.५० 14. पङ क्ती, 7, 13 च)। संस्करणेऽस्मिन् प्रदत्तं साधनापटलमित्यभिधानं तत्पटलटीकायाः (10 149, पङ्क्तिः 18), महोद्देशानां पुष्पिकाणां चाधारण प्रदत्तमस्ति / तत्र महोदेशानां पुष्पिकाणामधिकतमासु पुष्पिकासु साधनापटलमिति पदं लक्ष्यते / 2. श्रीतन्त्रं (लघुतन्त्रं ) स्रग्धरावृत्तनिबद्धः 1030 श्लोकैरुपनिबद्धमिति विमलप्रभाया मुक्तम् (वि० प्र०, पृ० 25, पङ्क्तिः 6) / द्र०-बॅनर्जी, उपरिनिर्दिष्टम्, भूमिका, पृ० 3 /