________________ - 15 चोनभाषया मङ्गोलभाषया वानूदितं नैवासीत् / मूलं च संस्कृतं विलुप्तमस्ति / मूलतन्त्रस्यास्य काश्चनांशान् वयमुपलभामहे, येष्वन्यतमः सेकोद्देशः सम्भाव्यते / अपरे चांशा मूलतन्त्र-आदिबुद्ध-परमादिबुद्धनामभिर् उद्धृतवचनरूपेण विविधेषु ग्रन्थेषूपलभ्यन्ते। ते च ग्रन्था यथा-विमलप्रभा, नडपादविरचिता सेकोद्देशटीका, चर्यागीतिकोषव्याख्या, दोहाकोशव्याख्या, तत्त्वज्ञानसंसिद्धिटीकेत्यादयः। लघुतन्त्रं-यदस्माभिरित ऊध्वं कालचक्रतन्त्रनाम्ना व्यपदिश्येत-सम्भवतो मूलतन्त्रगतामेव पटलानुपूर्वीमनुसरति / कालचक्रस्य पञ्चानां पटलानामनुक्रमे कश्चित् प्रयोजनविशेषो लक्ष्यते / प्रथमद्वितीयपटलो भाजनलोक-सत्त्वलोकौ वर्णयतः। तृतीयं पटलं सत्त्वशोधनप्रयोजनपरमभिषेकं विवृणोति / चतुर्थे साधनाख्ये पटले साधकं लौकिकसिद्धि प्रापयन्ती मण्डलभावनोपणितास्ति / पञ्चमं च पटलं परमाक्षरज्ञानरूपं परमं लक्ष्यमुपदिशति / 1. सेकोद्देश-मूलतन्त्र-सम्बन्धविषये द्र०-जॉन न्यूमन, "दि परमादिबुद्ध (दि कालचक्र मूलतन्त्र) अॅण्ड इट्स रिलेशन टु दि अर्ली कालचक्र लिटरेचर", इण्डो-इरानियन-जर्नल, 30 (2), 1987, पृ. 93-102) / सेकोद्देशस्य संस्कृतग्रन्थस्यास्तित्वं स सूचयति (पृ० 102), परं तस्य हस्तलेखस्य विषये विस्तरेण किमपि न कथयति / ए कॅटलॉग मॉफ पाम-लीफ अॅण्ड सिलेक्टेड पेपर मॅन्युस्क्रिप्ट्स इन दि दरबार लायब्ररी, नेपाल, कलकत्ता, 1915, इत्यस्मिन् हस्तलेखसूचीपत्रे म. म. हरप्रसाद-शास्त्रिणः कस्यचिद् अज्ञातग्रन्थस्य पत्राद् एकस्मात् कञ्चन पद्यांशमुद्धरन्ति / तत् पत्रं योगरत्नमालाया हस्तलेखस्य प्रथमपत्रत्वेन स्थापितमासीत्, यस्मिन् सेकविधेविवरणमुपलभ्यते / इदं तु निःशङ्कतया कथयितुं शक्यते यत् पद्यांशोऽसौ सेकोद्देशस्यैवांशः। तत्र पाठो भ्रष्टः, परंस नडपादविरचितसेकोद्देशटीकासाहाय्येन सुलभतया संशोधयितुं शक्यते / संशोधितपाठार्थ द्र०-एस० एस० बहुलकर, "फंगमेण्ट्स ऑफ दि सेकोद्देश", 'धीः', 17 ( 1994 ), पृ० 149-154 / 2. एतद्-ग्रन्थोद्धृतवचनार्थ द्र०-व्रजवल्लभद्विवेदि-बनारसीलालसंदृन्धो लुप्त-बौद्धवचन-संग्रहः, भागः 1, दुर्लभ-बौद्ध-ग्रन्थमाला, क्र. 6, केन्द्रीय-उच्च-भोट-विद्या-संस्थानम्, सारनाथ, वाराणसी, 1990 / पं. राहुल-सांकृत्यायन-महोदयः स्वीये "सेकण्ड सर्च ऑफ संस्कृत पाम-लीफ मॅन्युस्क्रिप्ट्स इन टिबेट" इति निबन्धे (जर्नल ऑफ बिहार रिसर्च सोसायटी, खण्डः XXIII (1), 1937) शलुविहारेऽवलोकितानां हस्तलेखानां सूची प्रयच्छति, यस्याम् 'आदिबुद्ध इ०' इत्येवं ग्रन्थाभिधानं लक्ष्यते (क्र० 270, पृ० 40) / हस्तलेखोऽयं पञ्चपत्रयुतोऽसम्पूर्णश्च / अयं च विलुप्तसेकोद्देशग्रन्थस्यांशः सम्भाव्यते / 3. तु०-० वेमन, "दि अपोक्रिफल कालचक्रतन्त्र", इन्दोगाकु-मिक्योगाकु-केक्यू (स्टडीज इन इण्डॉलॉजी अॅण्ड तान्त्रिक बुद्धिज्म ), प्रो० वायमियासाका-अभिनन्दनग्रन्थः, क्योतो, जापान, 1993 /