________________ - 16 180 234 261. पञ्चसु पटलेषु वर्णिता विषया द्वात्रिंशत्संग्रहे-यत्र प्रथमे अष्ट संग्रहा उद्देशपदेनावशिष्टाश्च महोद्देशपदेन व्यपदिश्यन्ते-एकाशीतिस्थाने संविभक्ताः। इमे विषया भगवतः स्वभावतयाऽवस्थिता इति विमलप्रभा (द्र०-वि० प्र०, खण्डः 1, पृ० 12-14) / पञ्चपटलगतानां संग्रह-स्थान-श्लोकानां संविभागो यथापटलम् - संग्रहाः स्थानानि श्लोकाः 1. लोकधातुपटलम् 2. अध्यात्मपटलम् 3. अभिषेकपटलम् 203 4. साधनापटलम् 5. ज्ञानपटलम् 1047 प्रस्तुतखण्डगत-तृतीय-चतुर्थपटलयोविषयविस्तरो यथातृतीयं पटलम्१. मण्डलदेशनार्थ सुचन्द्रस्याध्येषणा भगवतश्च प्रतिवचनम्, उत्तमाधमगुरुपरीक्षा; उत्तम-मध्यमाधमशिष्यपरीक्षा; अभिषेकार्थं भूमिपरीक्षा; शान्तिकादिविध्यर्थ दिग्विभागः; शान्तिकादिविध्यर्थं कुण्डानां लक्षणानि; शत्रुकीलनाथ कीलकाः; घटानां लक्षणानि; शान्तिकादिविध्यर्थं क्रूरवेला; आचार्यासनदिग्विभागः; रजोविधिनियमाः; देवता-सूत्र-अक्षसूत्रलक्षणानि; यन्त्रलेखनविधिः। 2. आचार्यरक्षाविधिः; रक्षाचक्रे क्रोधदेवतागणस्फारणम्, भूमिशुद्धिनिमित्तं पृथिव्यावाहनम्; भूमिशोधनार्थ दिनम् शिष्यादिरक्षाविधिः / 1. विमलप्रभायां प्रायः श्लोकानामनुक्रममनुसत्य कालचक्रतन्त्रस्याभिधेयं संक्षेपेण वणितमस्ति / बुस्तोनमहोदयस्तन्त्रस्यास्य विषयान् पञ्चविंशतिसंग्रहे विभजति / सत्यत्वेन तदीयसूच्यनुसारं संग्रहसंख्याहत्य षड्विंशतिः। (कलेक्टेड वसं ऑफ बुस्तोन्, खण्डः 15, सम्पा० लोकेशचन्द्रः, इण्टरनॅशनल अकादेमी ऑफ इण्डियन कल्चर, न्यू दिल्ली, 1966, पृ. 475 - 482 ) / भोटदेशीय आचार्यः कोण्ट्रलमहोदयो निवेदयति यत् कालचक्रतन्त्रस्याभिधेयं द्वात्रिंशत्संग्रहेऽशोतिस्थाने च संविभक्तमस्ति / तत्र द्वात्रिंशल्लक्षणाशीत्यनुव्यञ्जनशोधनं प्रयोजनम् / (द्र०-शेस्-ज्य कुन्-ख्यब् म्जोद्, मि रिग्स् पे स्क्रुन् खङ्, भोटदेशः, 1982, 10 496-497), कालचक्रस्य विषयाणां संक्षिप्तवर्णनार्थ द्र०-ए० वेमन, उपरिनिर्दिष्टम्, पृ० 286-289; वि० बॅनर्जी, उपरिनिर्दिष्टम, भूमिका, पृ० xvii-xx; वछुक् दोर्जे नेगो, अद्वयतन्त्र की विषयवस्तु एवं साधना (हिन्दी ), 'धीः' xv, 1993, पृ० 139-140 /