________________ - 17 3. मण्डलवर्तनम् होमविधिः। 4. कुण्डलक्षणम्, होमविधिः; तदुत्तरविधिश्च; मण्डलप्रवेशः; लौकिकाभिषेकः। 5. देवताप्रतिष्ठाविधिः; उत्तराभिषेक:; देवतागणचक्रपूजाविधिः, योगचर्या। 6. षट्त्रिंशद्देवतानां मुद्राबन्धाः, दृष्टिसङ्केताः; योगियोगिनीनां परस्परगुह्यसंज्ञापनार्थ गुह्यसंकेताः (छोमकाः); मण्डलविसर्जनम्; दानम्; मण्डलरजसः शुद्धनद्यां वाहनम्। भिक्षु-भिक्षुणी-प्रभृतीनां भोजनम् / चतुर्थ पटलम्१. वजिणः साधनविषये सुचन्द्रस्याध्येषणा भगवतश्च प्रतिवचनम्, साधनाथ स्थानानि; वक्त्रशुद्धयादिविधिः; पापदेशना; पुण्यानुमोदना; शून्यतालक्षणम् / 2. उत्पत्तिक्रमेण कायनिष्पत्तिः। 3. प्राणदेवतोत्पादः। 4. उत्पन्नक्रमः; षडङ्गयोगः; मण्डलराजानी-कर्मराजानी-बिन्दुयोग-सूक्ष्मयोगाख्यं चतुर्विधं साधनम् / 5. नानासाधनानि; अष्टमहासिद्धिसाधनम्, वैदिकयज्ञवेदान्तदर्शननिर्देशः; गुह्यतत्त्व ज्ञानम् षडङ्गयोगः; दानादिपुण्यसम्भारः; प्रत्यक्षपरोक्षचित्तभावना। संस्करण उपयोजिता हस्तलेखाः विमलप्रभायाः प्रथमखण्डस्य संस्करणे ये षड् हस्तलेखा उपयोजिता आसन्, त एवैतत्संस्करण उपयोजिताः सन्ति। ततोऽधिकमेको हस्तलेखो बडोदरास्थितओरिएण्टल-इन्स्टिटयूटतः पश्चात् समासादितः (क्र० 13218) / सोऽस्मिन् संस्करणे 'छ' इत्यक्षरसंकेतेन निर्दिष्टोऽस्ति। भोटोय-तञ्जुर-विभागस्य देर्गेसंस्करणमपि परिशोलितमस्ति (खण्डः 40, ग्रन्थसङ्ख्या 1347, धर्म पब्लिशर्स, यु.एस.ए., 1981) / तस्य परिचयविस्तरो विमलप्रभायाः प्रथमे खण्डे द्रष्टव्यः (पृ० xxxi ) / प्रस्तुतसंस्करणार्थं वयं नैकाभ्यो ग्रन्थशालाभ्यः परिसंस्थाभ्यश्च हस्तलेखसम्भारान् प्राप्नुवाम। वयं तैर्ग्रन्थशालाध्यक्षः परिसंस्थाधिकारिभिश्च नितरामनुगृहीताः स्मः / अस्य संस्थानस्य भोट-संस्कृत-कोश-प्रकल्पस्य प्रमुखः कोशसम्पादकश्च श्री-जितासेन नेगी-महोदयः स्वीये नेपालयात्राप्रसङ्गे हस्तलेखस्यैकस्य प्रतिलिपि कृत्वा कारुणिकतयाऽस्मभ्यं प्रदत्तवान् / स हस्तलेखः 'क' इत्यक्षरसङ्केतेन निर्दिष्टोऽस्ति / ग्रन्यस्यास्य भोटानुवादगतपाठसंकलनार्थ श्री-पेम्पा-दोर्जेमहोदयः साहाय्यमकरोत् / एतदर्थमुभावपि तावस्मद्धन्यवादानर्हतः। संस्करणमेतद् विदुषामभिमतं स्यादित्याशास्महे, तेषां चाभिप्रायान् सूचनाश्च प्रतीक्षामहे। सम्पादकाः