Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 15
________________ अत्र च यथाक्रममङ्गोपाङ्गाद्यागमप्रकरणविचारा उद्देशकादिक्रमेण लिख्यन्ते । तत्र च प्रथममाचाराङ्गविचारास्तत्राऽपि पूर्वं ज्ञानाधिकारतया || आचाराङ्ग रत्नाकरः B मंगलत्वेन जातिस्मृतिमान् कियतो भवाञ्जानातीति जिज्ञासया च तत्स्वरूपं लिख्यते - विचाराः " से जं पुण जाणेज्जा सहसम्मइयाए " इत्येतस्य नियुक्तौ- "एत्थ य सहसम्मइयाए जं पयं तत्थ जाणणा होइ । ओहीमणपज्जवनाणकेवले जाइसरणे य ॥६४॥" एतवृत्तिश्च- अत्र च'सहसम्मइयाएत्ति' सूत्रे यत्पदं तत्र 'जाणणत्ति ज्ञानमुपात्तं भवति 'मन ज्ञाने मननं मतिरितिकृत्वा, तच्च किंभूतं ? इति दर्शयति - अवधिमनःपर्यायकेवलजातिस्मरणरूपमिति । तत्रावधिज्ञानि संख्येयानसंख्येयश्च ||२|| भवाञ्जानाति । एवं मनःपर्यायज्ञान्यपि । केवलज्ञानी तु नियमतोऽनन्तान् । जातिस्मरणस्तु नियमतः संख्येयानिति । शेषं स्पष्टम् । इत्याचारांगप्रथमश्रुतस्कन्ध-प्रथमाध्ययनप्रथमोद्देशकनियुक्तिगाथावृत्तौ २३७ प्रतौ १४ पत्रे ॥१॥ एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्तीति जिज्ञासया लिख्यते - "जे बायरे विहाणा, पज्जत्ता तत्तिया अपज्जत्ता । सुहुमावि होंति दुविहा, अपजत्ता चेव पज्जत्ता ॥ ७९ ॥" 'जे बायरे इत्यादि यानि बादरपृथ्वीकाये विधानानि भेदाः प्रतिपादिताः, तानि यावन्ति पर्याप्तकानां तावत्येवापर्याप्तकानामपि । अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानाम् । यत एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्ति । सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव । किंत्वपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्रैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः । इत्याचाराङ्गप्रथमश्रुतस्कश्वप्रथमाध्ययनद्वितीयोद्देशकनियुक्तिगाथावृत्तौ २३७ प्रतौ १९ पत्रे ॥२॥ पृथिव्युपमर्दैन तज्जीवानां यादृशी वेदना भवति तज्जिज्ञासया लिख्यते - ___ "पायच्छेयणभेयण जंघोरु तहेव अंगुवंगेसु । जह हुंति नरा दुहिया, पुढविकाए तहा जाण ॥ ९७ ॥" व 'पायेत्यादि यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखितास्तथा पृथिवीकायेऽपि वेदनां जानीहि, यद्यपि पादशिरोग्रीवादिन्यानि पृथिवीकायिकानां न सन्ति, तथापि तच्छेदनानुरूपा वेदनास्त्येवेति दर्शयितुमाह-"णत्यि य सि अंगमंगा, तयाणुरूवा य वेयणा तेसिं । ||२|| केसिंचि उदीरेंति, केसिंचि य घायए पाणे ॥९८॥ पूर्वार्द्धं गतार्थम् । केषाञ्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 298