________________
अत्र च यथाक्रममङ्गोपाङ्गाद्यागमप्रकरणविचारा उद्देशकादिक्रमेण लिख्यन्ते । तत्र च प्रथममाचाराङ्गविचारास्तत्राऽपि पूर्वं ज्ञानाधिकारतया || आचाराङ्ग रत्नाकरः B मंगलत्वेन जातिस्मृतिमान् कियतो भवाञ्जानातीति जिज्ञासया च तत्स्वरूपं लिख्यते -
विचाराः " से जं पुण जाणेज्जा सहसम्मइयाए " इत्येतस्य नियुक्तौ- "एत्थ य सहसम्मइयाए जं पयं तत्थ जाणणा होइ । ओहीमणपज्जवनाणकेवले जाइसरणे य ॥६४॥" एतवृत्तिश्च- अत्र च'सहसम्मइयाएत्ति' सूत्रे यत्पदं तत्र 'जाणणत्ति ज्ञानमुपात्तं भवति
'मन ज्ञाने मननं मतिरितिकृत्वा, तच्च किंभूतं ? इति दर्शयति - अवधिमनःपर्यायकेवलजातिस्मरणरूपमिति । तत्रावधिज्ञानि संख्येयानसंख्येयश्च ||२||
भवाञ्जानाति । एवं मनःपर्यायज्ञान्यपि । केवलज्ञानी तु नियमतोऽनन्तान् । जातिस्मरणस्तु नियमतः संख्येयानिति । शेषं स्पष्टम् । इत्याचारांगप्रथमश्रुतस्कन्ध-प्रथमाध्ययनप्रथमोद्देशकनियुक्तिगाथावृत्तौ २३७ प्रतौ १४ पत्रे ॥१॥
एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्तीति जिज्ञासया लिख्यते -
"जे बायरे विहाणा, पज्जत्ता तत्तिया अपज्जत्ता । सुहुमावि होंति दुविहा, अपजत्ता चेव पज्जत्ता ॥ ७९ ॥" 'जे बायरे इत्यादि यानि बादरपृथ्वीकाये विधानानि भेदाः प्रतिपादिताः, तानि यावन्ति पर्याप्तकानां तावत्येवापर्याप्तकानामपि । अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानाम् । यत एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्ति । सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव । किंत्वपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्रैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः । इत्याचाराङ्गप्रथमश्रुतस्कश्वप्रथमाध्ययनद्वितीयोद्देशकनियुक्तिगाथावृत्तौ २३७ प्रतौ १९ पत्रे ॥२॥
पृथिव्युपमर्दैन तज्जीवानां यादृशी वेदना भवति तज्जिज्ञासया लिख्यते - ___ "पायच्छेयणभेयण जंघोरु तहेव अंगुवंगेसु । जह हुंति नरा दुहिया, पुढविकाए तहा जाण ॥ ९७ ॥" व 'पायेत्यादि यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखितास्तथा पृथिवीकायेऽपि वेदनां जानीहि, यद्यपि पादशिरोग्रीवादिन्यानि
पृथिवीकायिकानां न सन्ति, तथापि तच्छेदनानुरूपा वेदनास्त्येवेति दर्शयितुमाह-"णत्यि य सि अंगमंगा, तयाणुरूवा य वेयणा तेसिं । ||२|| केसिंचि उदीरेंति, केसिंचि य घायए पाणे ॥९८॥ पूर्वार्द्धं गतार्थम् । केषाञ्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति ।