Book Title: Vajraswami charitam
Author(s): Hemchandracharya, Ramyarenu
Publisher: Vijaybhadra Charitable Trust

View full book text
Previous | Next

Page 13
________________ ४ (२) प्रशमद्वाःस्थरक्षिते (A) द्वारि तिष्ठति इति द्वाःस्थः। (उप.त. पु.) स्था-पा - स्ना-त्रः कः ५।१।१४२ क प्रत्ययः । (B) प्रशम एव द्वाःस्थः इति प्रशमद्वाःस्थः । (अव.पू.क.) (C) प्रशमद्वाःस्थेन रक्षितम् इति प्रशमद्वाःस्थरक्षितम्, तस्मिन् प्रशमद्वाःस्थरक्षिते । (तृ. त. पु.) धर्मादेर्थो भवर्तीति, न्यायशास्त्रेष्वधीयते । सोऽर्थादपि व्यधद्धर्मम्, पात्रेभ्यो ऽर्थं नियोजयन् ॥ ६ ॥ अन्वय :- न्यायशास्त्रेषु धर्माद् अर्थः भवति इति अधीयते अपि पात्रेभ्यः अर्थं नियोजयन् सः अर्थाद् धर्मं व्यधात् । समास :- (१) न्यायशास्त्रेषु - (A) न्यायं सूचयन्ति इति न्यायसूचकानि । (उप.त.पु.) (B) न्यायसूचकानि शास्त्राणि इति न्यायशास्त्राणि, तेषु न्यायशास्त्रेषु । (म.प.लो.क.) ब्रह्मचर्यपरीणामम्, स्वर्गमोक्षफलं विदन्ं । इयेषं कन्यां द्वोढुम्, सोऽर्हद्धर्मपरायणः ॥ ७ ॥ अन्वय :- स्वर्गमोक्षफलं ब्रह्मचर्यपरीणामं विदन् अर्हद्धर्मपरायण: स: कन्याम् उद्वोढुं न इयेष । परायणः तत्परः, “अथ तत्परः" ॥ ३८४ ॥ आसक्तः प्रवणः प्रह्वः, प्रसितश्च परायणः । इत्यभिधाने (३८५) - समास :- (१) ब्रह्मचर्यपरीणामम् – (A) ब्रह्मणि चरतीति ब्रह्मचरः । (उप.त.पु.) चरेष्टः ५।१।१३८ ट प्रत्ययः ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 204