Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥२॥ -SCHARACROSASARAMSANSAR |विनाशयति शास्त्रपारगमनविघ्नान् गमयति-प्रापयति शास्त्रस्थैर्य लालयति च-श्लेषयति तदेव शिष्यप्रशिष्यपरम्प- रायामिति मङ्गलं, यद्वा मन्यन्ते अनापायसिद्धिं गायन्ति प्रबन्धप्रतिष्ठितिं लान्ति वाऽव्यवच्छिन्नसन्तानाः शिष्य-8 प्रशिष्यादयः शास्त्रमस्मिन्निति मङ्गलम् , आदिमध्यावसानवर्तिनस्तस्योक्तरूपार्थप्रसाधकत्वेन प्रसिद्धत्वात् , उक्तं हि-"तं मंगलमाईए मज्झे पजंतए य सत्थस्स। पढमं सत्थस्साविग्घपारगमणाय निद्दिढें ॥१॥ तस्सेव उ थिजत्थं मज्झिमयं अंतिमं च तस्सेव । अघोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥२॥” तच नामादिचतुर्भेदं, तत्र मङ्गलमिति नामैव नाममङ्गलं, स्थापनामङ्गलं मङ्गलाकारः, मङ्गलानि च दर्पणादीनि, यथोक्तम्-“दप्पणभदासण वद्धमाण वरकलसमच्छसिरिवच्छा । सोच्छिय नंदावत्ता लिहिया अट्ट मंगलगा ॥१॥” इति, द्रव्यभावमङ्गले त्वावश्यकभाष्यानुसारतोऽवबोद्धव्ये । तत्र चेह भावमङ्गलेनाधिकारः, तच कृतमेव, नन्दिरूपत्वात् तस्य, नन्दिव्याख्यानपूर्वकत्वाच सकलानुयोगस्य, अपवादत उत्क्रमणापि यदाऽनुयोगस्तदा भावत आदिमङ्गलं 'संजोगा: विप्पमुक्कस्स अणगारस्स' त्ति अणगारग्रहणं, मध्यमङ्गलं, 'कंपिल्ले नयरे राया' इत्यादिनाऽनगारगुणवर्णनम् , अन्त्य १ तन्मङ्गलमादौ मध्ये पर्यन्ते च शास्त्रस्य । प्रथमं शास्त्रस्याविघ्नपारगमनाय निर्दिष्टम् ॥१॥ तस्यैव तु स्थैर्याथै मध्यममन्तिमं च | तस्यैव । अव्यवच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवंशे ॥२॥ २ दर्पणं भद्रासनं वर्धमानो वरकलशो मत्स्यः श्रीवत्सः । स्वस्तिको नन्द्यावों लिखितान्यष्टाष्ट मङ्गलानि ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 458