Book Title: Uttaradhyayansutram Part 01 Author(s): Vadivetal, Shantisuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ *PLS PASLAHA* दावलिका आवलिकातो मुहूर्तमित्यादि, सञ्चयोत्तरं यत्सञ्चयस्योपरि, यथा धान्यराशेः काष्ठं, प्रधानोत्तरमपि त्रिविधं६ सचित्ताचित्तमिश्रभेदात्, सचित्तप्रधानोत्तरमपि त्रिधैव, तद्यथा-द्विपदं चतुष्पदमपदं च, तत्र द्विपदमनुत्तरपुण्यप्रकृतितीर्थकरनामाद्यनुभवनतः तीर्थकरः, चतुष्पदमनन्यसाधारणशौर्यधैर्यादियोगतः सिंहः, अपदं रम्यत्वसुरसेव्यत्वादिभिर्जात्यजाम्बूनदादिमयी जम्बूद्वीपमध्यस्थिता सुदर्शनाजम्बूः, अचित्तमचिन्त्यमाहात्म्यश्चिन्तामणिः, मिश्रं तीर्थकर एव गृहस्थावस्थायां सर्वालङ्कारालङ्कृतः, ज्ञानोत्तरं केवलज्ञानं, विलीनसकलावरणत्वेन समस्तवस्तुखभावाभासितया च, यद्वा श्रुतज्ञानं, तस्य स्वपरप्रकाशकत्वेन केवलादपि महर्द्धिकत्वात्, उक्तं च“सुयणाणं महिड्डीयं, केवलं तयणंतरं । अप्पणो य परेसिं च, जम्हा तं परिभावणं ॥१॥" ति, क्रमोत्तरं क्रममाश्रित्य यद्भवति, तच्चतुर्विध-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतः परमाणोर्डिंप्रदेशिकः ततोऽपि त्रिप्रदेशिकः एवं यावदन्त्योऽनन्तप्रदेशिकः स्कन्धः, क्षेत्रत एकप्रदेशावगाढात् द्विप्रदेशावगाढः ततोऽपि त्रिप्रदेशावगाढः एवं यावदवसानवर्त्यसङ्ख्येयप्रदेशावगाढः, कालत एकसमयस्थितेईिसमयस्थितिः ततोऽपि त्रिसमयस्थितिः एवं यावदसङ्ख्येयसमयस्थितिः, भावत एकगुणकृष्णात् द्विगुणकृष्णः ततोऽपि त्रिगुणकृष्णः एवं यावदनन्तगुणकृष्णः, यतो वा-क्षायोपशमिकादिभावादनन्तरं यः क्षायिकादिर्भवति, 'गणणओ'त्ति गणनात उत्तरमेककाद् १ श्रुतज्ञानं महद्धिकं केवलं तदनन्तरम् । आत्मनश्च परेषां च यस्मात्तत्परिभावनम् ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 458