Book Title: Uttaradhyayansutram Part 01 Author(s): Vadivetal, Shantisuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 4
________________ R उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥१॥ व्याख्याकृतामखिलशास्त्रविशारदाना, सूच्यप्रवेधकधियां शिवमस्तु तेषाम् । यैरत्र गाढतरगूढविचित्रसूत्रग्रन्थिर्विभिद्य विहितोऽद्य ममापि गम्यः॥४॥ अध्ययनानामेषां यदपि कृताश्थूर्णिवृत्तयः कृतिभिः । तदपि प्रवचनभक्तिस्त्वरयति मामत्र वृत्तिविधी इह खलु सकलकल्याणनिबन्धनं जिनागममवाप्य विवेकिनैवं विवेचनीयं-यदुत महार्थोऽयं मनोरथानामप्यपथभूतो भूरिजन्मान्तरोपचितपुण्यपरिपाकतो महानिधिरिव मयाऽधिगतः, तथाहि-महति संसारमण्डलेऽस्मिन् मानसादिदण्डैरभिहन्यमानाः कष्टेनेष्टविशिष्टार्थी महापुरीमिव मनुजगतिमनुप्रविशन्ति जन्तवः, अनुप्रविश्यापि चास्यामौर्द्धरथ्यिका इवाकृतसुकृतसम्भारा निरीक्षितुमपि नैनं क्षमन्ते, किमङ्ग पुनरवामिति ?, एतदवाप्तौ सर्वथा कृतार्थोऽस्मि, सम्भवति चास्यां खोपकारवत्परोपकारेऽपि शक्तिरिति नेदानी युक्ता कर्दर्यता, किन्तु ?, भवितव्यमुदाराशयेन, परोपकारपूर्विकैव च खोपकारप्रवृत्तिरुदाराशयतां ख्यापयतीति परोपकार एवादितः प्रवर्तितुमुचितम् ।। सन्ति चास्मिन् महितमाहात्म्याः समीहितसम्पादकाश्च मणय इव चरणकरणादिगोचराचाराद्यङ्गानुयोगाः, न चैत इदानीं सम्यग्दर्शनादिहेतुं मिथ्यात्वादिपिशाचशमनं धर्मकथात्मकोत्तराध्ययनानुयोगं रक्षाविधानमिवापहाय खयं ग्रहीतुमन्यस्मै वा दातुं युज्यन्ते, इत्यारभ्यत उत्तराध्ययनानुयोगः-तत्र च न तथाविधफलादिपरिज्ञान १ भिक्षाचराः। २ कृपणता । CA% www.jainelibrary.org For Personal & Private Use Only Jain Education InternationalPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 458