Book Title: Uttaradhyayanam Sutram Part 01 Author(s): Chandraguptasuri Publisher: Anekant Prakashan Jain Religious Trust View full book textPage 6
________________ उत्तराध्ययन 4 संज्ञकं न्यायाम्भोनिधिश्रीमद्विजयानन्द सूरिशिष्यप्रवर्त्तक- श्रीमत्कान्तिविजयमुनिपुङ्गव संस्थापितवीरक्षेत्र (वडोदरा) चित्कोषसत्कं नवीनम् । चतुर्थे पुनः 'घ' संज्ञकं पंन्यास श्रीमत्सिद्धिविजयगणि शिष्य-पंन्यासश्रीरङ्ग विजयगणिसत्कं प्राचीनं शुद्धश्च । अस्य संशोधनसमये पुस्तकप्रेषणेन साहाय्यं वितन्वताममीषां महाशयानां परोपकारं स्मृतिगोचरतां नयामः । एतत्पुस्तकचतुष्टयाधारेण न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिशिष्य महोपाध्याय श्रीमद्- लक्ष्मीविजयान्तेवासिश्रीमद्- हर्षविजयमुनिपुङ्गवपादपद्मसेवाहेवाकमधुकरकल्पेन समयानुवर्त्तिचरणकरण संसाधनसावधानमनसा जैनसामाजिकोन्नतिविधित्सुना मोहमय्यां निजसदुपदेशप्रबोधितश्रीजैन श्वेताम्बर मूर्तिपूजक सङ्घपार्श्वसंस्थापित श्रीमहावीरजैनविद्यालयेन श्रीमता वल्लभविजयमुनिना सावधानीभूय संशोधनं कृतमस्ति, अतस्तेषामनुग्रहपरम्परां सर्वथा स्मृतिपथान्नापनेष्यामः । श्री गुर्जरावनिवनिताललाटतिलकायमान - अण हिलपुरपत्तनपत्तन - वास्तव्य श्रीमालिज्ञातीय - बाबूपन्नालाल पुत्र चूनीलाल- इत्येतस्य भार्यया नानाविधजिनालयोपाश्रयज्ञानमन्दिरज्ञानोद्धाराद्यनेकधर्मकार्येषु व्ययितानेकशतसहस्रद्रव्यया जैनधर्मशुद्ध श्रद्धानवासितान्तः करणया श्रमणोपासिकया “भीखीबाई" इति नान्या जैनधर्मश्रद्धालु श्रेष्ठस्य स्वपुत्ररत्नस्य रत्नलाल इति नामधेयस्य सहानुमत्या सूत्रस्यास्य मुद्रणोपयोगिपरि - पूर्णद्रव्यसाहाय्य दत्तं तेन ज्ञानोद्धारवैषयिकमिदमपि धर्मकार्य प्रशंसा ईमेव । यस्यानन्तरोक्त मुनिवर्यैर्महता प्रयासेन संशोधनमकारि तथापि दृष्टिदोषेण सीसकाक्षरयोजकदोषेण वात्र कचनाशुद्धिर्वाचकमहाशयानां दृष्टिपथमवतरेतत्र संशोध्य वाचनीयं विद्वद्वर्यैरिति निवेदयन्ति - बिक्रमसंवत् १९७४ माघशुक्ला पञ्चमी भावनगरस्थात्मानन्दसभाकार्यवाहकाः । निवेदनम्। UTR-1Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 444