Book Title: Updeshratna Kosh
Author(s): Padmajineshwarsuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhak Trust
View full book text
________________
अथ प्रशस्तिः श्रीमते वीरनाथाय, कारुण्यपुण्यपाथसे । चरमतीर्थनाथाय, परोपकारिणे नमः ।।१।। गौतमस्वामिने स्वस्ति, सुधर्मस्वामिने नमः | तत्परम्परयाऽऽयात-यतीन्द्रेभ्यो नमो नमः ।।२।। शुभ्राभ्रशुभ्रसन्तत्या-मेतस्यामभवत् किल । विजयानन्दसूरीशः, सुरीशसेव्यतां गतः ।।३।। ततोऽपि कमल: सूरिः, संयमकमलाकरः | उपाध्यायस्तथा वीरो, वीर आन्तरविग्रहे ||४|| सर्वागमरहस्यज्ञ-स्ततो दानसूरीश्वरः | ततोऽपि प्रेमसूरीशः, सिद्धान्तैकमहोदधिः ।।५।। भुवनभानुसूरीश-स्ततो न्यायविशारदः | पंन्यासोऽस्यानुजः पद्मः, समतारससागरः ||६|| विराजते विनेयोऽस्य, मादृशेषु कृपापरः | वैराग्यदेशनादक्षः, श्रीहेमचन्द्रसूरिपः ।।७।। तत्पादपङ्कजालिना, सूरिकल्याणबोधिना । सन्दृब्धोऽयं प्रबन्धस्तु, कुर्यात् सर्वस्य मङ्गलम् ||८||

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92