Book Title: Tattvarthadhigam Sutram Part 01 Author(s): Thakurprasad Sharma Publisher: Shripalnagar Jain S M Derasar TrustPage 14
________________ प्रस्तावना... " यस्य निखिलाश्च दोषा न सन्ति सर्वे गुणाश्च विद्यन्ते । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ १॥" मनीषिमनोमानसमरालानां तमस्तिरस्कारतत्परतरणिविधानवेधसां पञ्चशतीप्रकरणप्रणेतृणां वाचकवर्यविरुदविख्यातानां मुनिमूर्धमुकुटमणीनां श्रीउमास्वातीनां विषये वक्तुं कः क्षमः । तथापि स्याद्वादशैलीसमलङ्कतस्य लोकालोकाकलनैककुशलसर्वज्ञमूत्रितस्य रागारातिपराजयपारीणस्य च जैनदर्शनस्यानुरागेण 'शुभे यथाशक्ति यतनीय'मिति च न्यायेन क्रियतेऽयं प्रयासो मया मन्दमतिना । तत्र प्रथमं प्रस्तूयते ग्रन्थविचारः तत्वार्थाधिगमसूत्रेतिनामधेयस्यास्य महानिबन्धस्य भवति नाम्नैव विषयव्यक्तीकरणम् । जीवाजीवादिस्वरूपतत्वार्थविवरणादेवैतन्नामसार्थक्यम् । जैनसाहित्यस्य द्रव्यानुयोगादिचतुरनुयोगादिषु प्रधानतया प्रथमे द्रव्यानुयोगेऽस्य समावेशः। ग्रन्थादौ भाष्यभूमिकायां प्रस्तावरूपाः ३१ सम्बन्धकारिकाः सङ्ग्रहीताः । तदनन्तरं प्रथमेऽध्याये सम्यक्त्व निक्षेप-निर्देश ज्ञान-नयादीनां स्वरूपाणि व्याख्यातानि; द्वितीये जीवल क्षणम्,औपशमिकादिभावानां ५३ भेदाः, जीवभेदाः, इन्द्रियाणि, आयुषः स्थितिः, विचारः य: लोकप्रज्ञप्तिनामके तृतीये नरक-नारकाणां विचारः, मनुष्यक्षेत्रवर्णनं, तिरश्चामधि कारः; देवगतिप्रदर्शननाम्नि चतुर्थे देवविचारः, तदादीनामायुषो जघन्योत्कृष्टता; पञ्चमे धर्मास्तिकायादिकाजीवव्याख्या, द्रव्यलक्षणं च; षष्ठे आस्रवप्रस्तावः; अनगारागारिधर्मप्ररूपके सप्तमे देशविरतिसर्वविरतिविचारः; अष्टमे बन्धविचारः, नवमे संवरनिर्जराविचारः, दशमे मोक्षतत्त्वाधिकारविचारः; तदन्ते उपसंहाररूपेण मोक्षमार्गः स्पष्टतया प्रतिपादितः संक्षेपेण ॥ सूत्रपरिमाणं प्रायः १९८ श्लोकाः। भाष्यप्रमाणं २२०० श्लोकाः, तत्र परिमाणम् ॥ सूत्रादिः प्रारम्भे ३१, प्रथमाध्यायान्तिमसूत्रभाष्ये ९ (४+५), षष्ठाध्यायनवमसूत्र भाष्ये१, अन्ते ३२ कारिकाःप्रणीताः। श्रीसैद्धसेनीयटीकापरिमाणं १८२८२ । अत्रैतट्टीकाप्रान्तस्थप्रशस्तिगतनिम्नलिखितश्लोको प्रमाणम् "अष्टादश सहस्राणि, द्वे शते च तथा परे । अशीतिरधिका द्वाभ्यां, टीकायाः श्लोकसङ्ग्रहः ॥१॥ मूलसूत्रप्रमाणं हि, द्विशतं किश्चिदनकम् । भाष्यश्लोकस्य मानं च, द्वाविंशतिः शतानि वै ॥२॥" Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 518