SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना... " यस्य निखिलाश्च दोषा न सन्ति सर्वे गुणाश्च विद्यन्ते । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ १॥" मनीषिमनोमानसमरालानां तमस्तिरस्कारतत्परतरणिविधानवेधसां पञ्चशतीप्रकरणप्रणेतृणां वाचकवर्यविरुदविख्यातानां मुनिमूर्धमुकुटमणीनां श्रीउमास्वातीनां विषये वक्तुं कः क्षमः । तथापि स्याद्वादशैलीसमलङ्कतस्य लोकालोकाकलनैककुशलसर्वज्ञमूत्रितस्य रागारातिपराजयपारीणस्य च जैनदर्शनस्यानुरागेण 'शुभे यथाशक्ति यतनीय'मिति च न्यायेन क्रियतेऽयं प्रयासो मया मन्दमतिना । तत्र प्रथमं प्रस्तूयते ग्रन्थविचारः तत्वार्थाधिगमसूत्रेतिनामधेयस्यास्य महानिबन्धस्य भवति नाम्नैव विषयव्यक्तीकरणम् । जीवाजीवादिस्वरूपतत्वार्थविवरणादेवैतन्नामसार्थक्यम् । जैनसाहित्यस्य द्रव्यानुयोगादिचतुरनुयोगादिषु प्रधानतया प्रथमे द्रव्यानुयोगेऽस्य समावेशः। ग्रन्थादौ भाष्यभूमिकायां प्रस्तावरूपाः ३१ सम्बन्धकारिकाः सङ्ग्रहीताः । तदनन्तरं प्रथमेऽध्याये सम्यक्त्व निक्षेप-निर्देश ज्ञान-नयादीनां स्वरूपाणि व्याख्यातानि; द्वितीये जीवल क्षणम्,औपशमिकादिभावानां ५३ भेदाः, जीवभेदाः, इन्द्रियाणि, आयुषः स्थितिः, विचारः य: लोकप्रज्ञप्तिनामके तृतीये नरक-नारकाणां विचारः, मनुष्यक्षेत्रवर्णनं, तिरश्चामधि कारः; देवगतिप्रदर्शननाम्नि चतुर्थे देवविचारः, तदादीनामायुषो जघन्योत्कृष्टता; पञ्चमे धर्मास्तिकायादिकाजीवव्याख्या, द्रव्यलक्षणं च; षष्ठे आस्रवप्रस्तावः; अनगारागारिधर्मप्ररूपके सप्तमे देशविरतिसर्वविरतिविचारः; अष्टमे बन्धविचारः, नवमे संवरनिर्जराविचारः, दशमे मोक्षतत्त्वाधिकारविचारः; तदन्ते उपसंहाररूपेण मोक्षमार्गः स्पष्टतया प्रतिपादितः संक्षेपेण ॥ सूत्रपरिमाणं प्रायः १९८ श्लोकाः। भाष्यप्रमाणं २२०० श्लोकाः, तत्र परिमाणम् ॥ सूत्रादिः प्रारम्भे ३१, प्रथमाध्यायान्तिमसूत्रभाष्ये ९ (४+५), षष्ठाध्यायनवमसूत्र भाष्ये१, अन्ते ३२ कारिकाःप्रणीताः। श्रीसैद्धसेनीयटीकापरिमाणं १८२८२ । अत्रैतट्टीकाप्रान्तस्थप्रशस्तिगतनिम्नलिखितश्लोको प्रमाणम् "अष्टादश सहस्राणि, द्वे शते च तथा परे । अशीतिरधिका द्वाभ्यां, टीकायाः श्लोकसङ्ग्रहः ॥१॥ मूलसूत्रप्रमाणं हि, द्विशतं किश्चिदनकम् । भाष्यश्लोकस्य मानं च, द्वाविंशतिः शतानि वै ॥२॥" Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy