________________
१४
अथ कार्यारम्भे ' श्रीमोहनलालजी जैनसेन्ट्रललाइब्रेरी'तः तत्त्वार्थाधिगमसूत्रस्य श्री सिद्धसेनगणिकृत टीकायाः प्रतिः श्रीजयमूरिप्रधान शिष्य श्रीमत्प्रतापमुनिद्वारा समासादिता । प्रत्यन्तरं च लब्धं श्रीजीवनचन्द्रात् । तदनन्तरं मुद्रणालय पुस्तिका समारब्धा । पाठान्तरार्थं श्रीजयमूरिदत्तमुद्रित पुस्तकस्य 'बङ्गाल एशियाटिक सोसायटी' प्रकाशितस्य पुस्तकस्य चोपयोगः कृतः । एपामादर्शपुस्तकानां क ख ग घेति संज्ञा निर्धारिता । सन्दिग्धस्थ - लेषु साधनीभूतायाः सूर्यपुरस्थजैनानन्द पुस्तकालयप्रतेस्तु साक्षादुल्लेखः ।
पञ्चाध्यायपर्यन्तमुद्रणालय पुस्तिकायाः प्रायः समाप्तौ सत्यां विषयसूचकानां पार्श्वनिर्दिष्टटिप्पनिकानां मयोल्लेखोऽकारि येन सुलभतया सर्वेषां विषयाकलनं स्यादिति । अनन्तरं मुद्रणालय पुस्तिका जैन सिद्धान्तपारङ्गत श्री आनन्दसागर मूरिसविधे प्रहिता । मय्यनुकम्पाद्रहृदयैस्तैर्मदभ्यर्थनया प्रायः सर्वत्र आगमोद्धृतपाठस्थलच्छायाभिः पञ्चमाध्याये टिप्पनीभिव सा विभूषिता । संशोधनकार्ये चातीव साहाय्यमकारीति तेषां परोपकृति सौजन्यं वर्णयितुं न पाये ।
ग्रन्थार्धस्य परिसमाप्तौ प्रकाशकाय मया सूचितं यदस्य शुद्धिपत्रं सार्वसिद्धान्ततस्त्रवेदिना मुनिवरेण तज्ज्ञगृहस्थेन वा यदि क्रियेत तर्हि महान् लाभो भविष्यति ग्रन्थोऽपि विशेपत आदरणीयः स्यादिति । तदूरीकृत्य तेन विज्ञप्स जैन शासन सेवाहे वाकैः उपाध्यायश्रीमङ्गलविजयैर्मत्प्रोत्साहन गर्भितमेतत् कार्य स्वीकृतम् । ' उग्रसेन ' ( आग्रा ) पुरस्थश्रीविजयधर्मलक्ष्मीज्ञानमन्दिरस्य ३२६ पेत्रात्मिकां श्रीविक्रमात् १७२२ तमे वर्षे ज्येष्ठकृष्णद्वितीयायां लिखितां नात्यशुद्धां प्रतिं समादाय शुद्धिपत्रं पाठान्तरसमेतं स्वानुभवगम्यपाठकलितं तैरकारीति तेषां कियान् परिश्रमो बभूवेति विद्वांस एव जानीयुः ।
अन्ते यैर्यैर्महानुभावैर्येन केनापि साहाय्यदानेनाहमृणीकृतः तेषां सौजन्यं संस्मरन् पठनपाठनप्रवणपण्डितवर्येभ्यः स्खलितस्थलसम्बन्धिनीं क्षमां याचमानोऽस्माद् विज्ञापनप्रस्तावाद विरमामि
Jain Education International
रसिकनन्दनः कापडियेत्युपाहो हीरालालः ।
१ पत्रस्योभयपार्श्वे त्रिंशत् त्रिंशत् पङ्कयः, प्रत्येकपङ्क्तौ च एकषष्टिरक्षराणि ।
For Personal & Private Use Only
www.jainelibrary.org