SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ एतेषु दशाध्यायेषु विभक्तानां सूत्राणां संख्या ३४४ इति श्वेताम्बराणां मान्यता, दिगम्बरास्तु तत्संख्या ३५७ मन्यन्ते । यत उभयोरपि सम्प्रदाययोर्माननीयस्यास्य ग्रन्थस्य सूत्रेषु सख्याभिन्नता पाठान्तराणि च सन्ति । दिगम्बरेष्वस्य ग्रन्थस्य मोक्षशास्त्ररूपेणापि प्रसिद्धिः । एकशः पाठकरणेन एकोपवासोपार्जितपुण्यं च भवतीति गरीयसीयं समादृतिः । उक्तं चप्रन्थस्य महत्वम् । ... "दशाध्यायपरिच्छिन्ने, तत्वार्थे पठिते सति ।। ' फलं स्यादुपवासस्य, भाषितं मुनिपुङ्गवैः ॥१॥" . अस्य सार्वसिद्धान्तसारभूतस्य ग्रन्थस्य यद् महत्त्वं तदनुमीयते तदुपरि संस्कृत-हिंदीगुजराती कर्णाटकीय-आङ्ग्ल-जर्मन-भाषासु लिखितानां उपलब्धविवरणानां दर्शनात् । एतेषां किश्चित् स्वरूपं विचार्यते । तत्र श्वेताम्बरसम्प्रदाये १ तत्त्वार्थसूत्रभाष्यं २२०० श्लोकप्रमाणकं वाचकवर्यश्रीउमास्वातिविरचितम् । २ श्रीसिद्धसेनदिवाकरगुम्फितं गन्धहस्तिमहाभाष्यम् (१)। ३ श्रीदिन्नगणिशिष्यसिंहमूरिप्रशिष्यसिद्धसेनगणिकृता भाष्यानुसारिणी १८२८२ लोकपरिमिता टीका। श्रीहरिभद्रमुरिप्रणीता भाष्यानुसारिणी ११००० श्लोकपरिमिता टीका । ५ न्यायविशारदन्यायाचार्यमहामहोपाध्यायश्रीयशोविजयविरचिता टीको भाष्यसर्कानुसारिणी। ६ श्रीमलयगिरिमरिसंदृब्धा टीका । ७ श्रीतत्त्वार्थटिप्पणकं चिरन्तनमुनिवर्यप्रणीतम् । १ इदं भाष्यं पश्चाध्यायपर्यन्तं प्रन्थेऽस्मिन् मुद्रितमस्ति । २ अधुनेदं नोपलभ्यते । ३ इथं टीका पश्चाध्यायपर्यन्ताऽस्मिन् ग्रन्थे मुद्रिता, शेषभागस्तु भविष्यति मुद्रितः। ४ "तत्त्वार्थमूलटीकायां हरिभद्रसूरि"रित्युल्लेखः प्रवचनसारोद्धारटीकायां ३३७तमे पत्रे। परम्परानुसारेण सार्धपश्चाध्यायपर्यन्ता टीका श्रीहरिभद्रसूरिकृता, अवशिष्टा तु तच्छिष्यवर्यश्रीयशोभद्रसूरिभी रचिता। ५प्रथमाध्यायपर्यन्ता मुद्रापिता अमदावादस्थश्रेष्ठिवर्यमनसुखभाईतनुजनुर्माणेकलालभाईश्रेष्ठिप्रवरेण । तंतः परमनुपलब्धेः । ६ अस्याः सम्भवे श्रीमलयगिरिसूरिभिः प्रज्ञापनावृत्तौ निम्नलिखितोल्लेखो हेतुः-. " यथा च प्रमाणबाधितत्वं तथा तत्त्वार्थटीकायां भावितमिति ततोऽयधार्यम् ।" ७ इदं अमदावादस्थमाणेकलालभाईश्रेष्ठिवर्येण मुद्रापितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy