Book Title: Tattvarthadhigam Sutram Part 01 Author(s): Thakurprasad Sharma Publisher: Shripalnagar Jain S M Derasar TrustPage 19
________________ श्रीउमास्वातिमहर्षिभिः प्रकरणपञ्चशती प्रणीता इत्युलेखः श्रीजिनप्रभसूरिकृततीर्थकल्पे प्रशमरतेः श्रीहरिभद्रकृतटीकायां च । अनेन एतेषां पञ्चशतप्रकरणप्रणेतृरूपेण प्रसिद्धिः श्वेताम्बरसम्प्रदाये । स्थानाङ्गवृत्ति - पञ्चाशकवृत्ति-श्रीउत्तराध्ययनवृत्त्यन्तर्गतनिम्नलिखितपाठा वाचकवर्य कृतोपलब्धग्रन्थेषु न दृष्टिपथेऽवतरन्ति, अतोऽपि संभवति तेषामन्यग्रन्थप्रणेतृत्वम् । “उक्तं च वाचकमुख्यैरुमास्वातिपादैःकृपणे नाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यद् दीयते कृपार्थादनुकम्पा तद् भवेद् दानम् ॥ १ ॥ अभ्युदये व्यसने वा यत् किञ्चिद् दीयते सहायार्थम् । तत्सङ्ग्रहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥ २ ॥ राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च । यद् दीयतेऽभयार्थं तदभयदानं बुधैर्ज्ञेयम् ॥ ३ ॥ अभ्यर्थितः परेण तु यद् दानं जनसमूहमध्यगतः । परचित्तरक्षणार्थं लञ्जायास्तद् भवेद् दानम् ॥ ४ ॥ नटनर्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः । यद्दीयते यशोऽर्थं गर्वेण तु तद् भवेद् दानम् ॥ ५ ॥ हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः । यद् दीयते हि तेषां तज्जानीयादधर्माय || ६ || समतृणमणिमुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तद् दानं भवति धर्माय ॥ ७॥ शतशः कृतोपकारो दत्तं च सहस्रशो ममानेन । अहमपि ददामि किञ्चित् प्रत्युपकाराय तद् दानम् ॥ ८ ॥" —स्थानाङ्गस्य श्रीअभयदेवसूरिकृतवृत्तौ २० " उमास्वातिवाचकेनाप्यस्य समर्थितत्वात् । तथाहि तेनोक्तम् - सम्यग्दर्शनसम्पन्नः षड्विधावश्यक निरतश्च श्रावको भवति इति ॥” " उक्तं वाचकमुख्यैः Jain Education International - - पञ्चाशकस्य श्रीअभयदेवसूरिकृतवृत्तौ परिभवसि किमिति लोकं, जरसा परिजर्जरितशरीरम् । अचिरात् त्वमपि भविष्यसि, यौवनगर्वं किमुद्वहसि ? ॥ १ ॥ ” श्री उत्तराध्ययनसूत्र (अ० १०, पत्रा० २४४ ) स्य श्रीभावविजयकृतवृत्तौ For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 518