Book Title: Tattvarthadhigam Sutram Part 01 Author(s): Thakurprasad Sharma Publisher: Shripalnagar Jain S M Derasar TrustPage 17
________________ २१ श्रीअभयनन्दिसूरिप्रणीता तात्पर्यतत्त्वार्थटीका। २२ तत्त्वार्थसूत्रव्याख्यानं कर्णाटकीयभाषायाम् । २३ श्रीतत्त्वार्थाधिगमसूत्रस्य महाशयजगमन्दरलालजैनीकृतं आङ्ग्लभाषायां विवरणम् । अपरं च हिन्दीभाषायां पञ्चदश टीका वर्तन्ते । तेषां नामाद्युल्लेखाय उपर्युक्तो नवमाङ्को प्रन्यो द्रष्टव्यः॥ ग्रन्थकारपरिचय: ग्रन्थकारनामादिषु श्वेतपटानां दिक्पटानां च नैकता । तस्मात् प्रथमतः श्वेताम्बरानुसारी वृत्तान्तो दय॑ते । तत्र उपर्युक्त ३४४ सूत्राणां तदुपरिकृतभाष्यस्य तत्पूर्वप्रणीतसम्बन्धकारिकाणां च प्रणेतार उच्चै गरशाखीयभगवत्पादश्रीउमास्वातिसूरयः । एतैर्जन्मना 'न्यग्रोधिका' पावनीकृता। 'वात्सी'गोत्रीया उमा माता 'कौभीषणी 'गोत्राख्यः स्वातिः पिता चैपां जन्मदाता । अनयोर्नामधेययोः संयोजनेन तेषां नामनिष्पत्तिर्यथा बैप्पभटिसूरीश्वराभिधाने । इमे सूरयः जन्मतो द्विजाः शिवादौ रक्ता आसन् , किन्तु जिनमूर्तिदर्शनात् जैनव्रतधारिणोऽभूवन् , क्रमेण पूर्वविदो भूत्वा वाचकेतिपदवी प्राप्तवन्त इत्यवगम्यते श्रीगुणाकरसूरिकृतनिम्नोल्लेखदर्शनात् ...अन्यत्र देवान्तरे न तोष-चित्तानन्दमुपयाति-उपैति उमास्वातिवाचकवत् । सोऽदृष्टपूर्वी जिनमूर्तिं दृष्ट्वा स्तुतिं पठितवान् पुनरेव तवाचष्टे, भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽनो, तरुर्भवति शाड्वलः ॥१॥ ततोऽन्यत्र शिवादौ विरक्तो जिनधर्मदर्शनासक्तोभूदुमास्वातिर्द्विजसूनुरात्तव्रतः सूरिपदमाप । क्रमात् पूर्वगतवेत्ता वाचकोऽभूत् ।" -भक्तामरस्तोत्रवृत्तौ (पृ० २९) वाचकमुख्यस्य शिवश्रियः प्रशिष्याः, घोषनन्दिश्रमणस्य शिष्याः, वाचनया तु महावाचकश्रमणमुण्डपादस्य प्रशिष्याः वाचकपदवीसमलङ्कृता इमे उमास्वातयः । १ जैनेन्द्रव्याकरणस्य बृहद्वृत्तिकाराः ७७५तमे शकसंवत्सरे जाताः। २ श्रीलक्ष्मीसेनभट्टारकसत्कम् । ३ जम्बूद्वीपसमासटीकायां श्रीविजयसिंहमुनीश्वरैरप्युक्तम्" अस्य सङ्ग्रहकारस्य उमा माता स्वातिः पिता, तत्सम्बन्धादुमास्वातिः।" ४ बप्पनामा पिता, भट्टिनानी मातेति विशेषः । Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 518