________________
श्रीउमास्वातिमहर्षिभिः प्रकरणपञ्चशती प्रणीता इत्युलेखः श्रीजिनप्रभसूरिकृततीर्थकल्पे प्रशमरतेः श्रीहरिभद्रकृतटीकायां च । अनेन एतेषां पञ्चशतप्रकरणप्रणेतृरूपेण प्रसिद्धिः श्वेताम्बरसम्प्रदाये । स्थानाङ्गवृत्ति - पञ्चाशकवृत्ति-श्रीउत्तराध्ययनवृत्त्यन्तर्गतनिम्नलिखितपाठा वाचकवर्य कृतोपलब्धग्रन्थेषु न दृष्टिपथेऽवतरन्ति, अतोऽपि संभवति तेषामन्यग्रन्थप्रणेतृत्वम् ।
“उक्तं च वाचकमुख्यैरुमास्वातिपादैःकृपणे नाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यद् दीयते कृपार्थादनुकम्पा तद् भवेद् दानम् ॥ १ ॥ अभ्युदये व्यसने वा यत् किञ्चिद् दीयते सहायार्थम् । तत्सङ्ग्रहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥ २ ॥ राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च । यद् दीयतेऽभयार्थं तदभयदानं बुधैर्ज्ञेयम् ॥ ३ ॥ अभ्यर्थितः परेण तु यद् दानं जनसमूहमध्यगतः । परचित्तरक्षणार्थं लञ्जायास्तद् भवेद् दानम् ॥ ४ ॥ नटनर्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः । यद्दीयते यशोऽर्थं गर्वेण तु तद् भवेद् दानम् ॥ ५ ॥ हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः । यद् दीयते हि तेषां तज्जानीयादधर्माय || ६ || समतृणमणिमुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तद् दानं भवति धर्माय ॥ ७॥ शतशः कृतोपकारो दत्तं च सहस्रशो ममानेन । अहमपि ददामि किञ्चित् प्रत्युपकाराय तद् दानम् ॥ ८ ॥" —स्थानाङ्गस्य श्रीअभयदेवसूरिकृतवृत्तौ
२०
" उमास्वातिवाचकेनाप्यस्य समर्थितत्वात् । तथाहि तेनोक्तम् - सम्यग्दर्शनसम्पन्नः षड्विधावश्यक निरतश्च श्रावको भवति इति ॥”
" उक्तं वाचकमुख्यैः
Jain Education International
-
- पञ्चाशकस्य श्रीअभयदेवसूरिकृतवृत्तौ
परिभवसि किमिति लोकं, जरसा परिजर्जरितशरीरम् । अचिरात् त्वमपि भविष्यसि, यौवनगर्वं किमुद्वहसि ? ॥ १ ॥ ”
श्री उत्तराध्ययनसूत्र (अ० १०, पत्रा० २४४ ) स्य श्रीभावविजयकृतवृत्तौ
For Personal & Private Use Only
www.jainelibrary.org