________________
विहरमाणैश्च तैः 'कुसुमपुरे' पाटलीपुत्रनामधेयेऽयं ग्रन्थः सन्डन्धः । अत्र च भाष्यान्ते दत्ता निम्नलिखिता प्रशस्तिः प्रमाणम् ।
“वाचकमुख्यस्य शिव:श्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गविदः॥१॥-आर्या वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्य । शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः ॥२॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कोभीषणिना स्वातितनयेन वात्सीसुतेनाध्येम् ॥३॥ अहंद्वचनं सम्यग् गुरुक्रमेणागतं समुपधाये। दुःखाते च दुरागमविहतमति लोकमवलोक्य ॥४॥ इदमुच्चै गरवाचकेन सत्त्वानुकम्पया दृब्धम् ।
तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ॥५॥" वाचकवर्यश्रीउमास्वातीनां कृतयः१ श्रीतत्त्वार्थाधिगमसूत्रम् । २ श्रीतत्त्वार्थाधिगमभाष्यम् । ३ प्रेशमरतिः। ४ जम्बूद्वीपसमासप्रकरणम् । ५ पूजाप्रकरणम् ( एकोनविंशतिश्लोकात्मकम् )। ६ श्रीवकप्रज्ञप्तिः। ७ क्षेत्रविचारः।
१ धर्मरत्नप्रकरणप्रणेतृश्रीशान्तिसूरिभिरपि तत्प्रकरण ( गा० १०३ ) स्वोपज्ञवृत्तावुकम्" पूर्वगतवेदिना चोमास्वातिवाचकेन प्रणीतप्रवचनोन्नतिहेतुप्रशमरतितत्त्वार्थायनेकमहाशास्त्रेण ।" २ प्रसिद्धयनुसारेण । ३ धर्मबिन्दोः श्रीमुनिचन्द्रसूरिकृतटीकायां निम्नलिखितोल्लेखात्" उमास्वातिविरचितश्रावकाशतो तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीताः, ततस्तेषां संविभागः कार्य
तथा च तत्वाटः-अतिथिसंविभागो नाम अति ययः साधवः साध्व्यः श्रावकाः श्राविकाश्चैतेषु गृहमुपागतेषु भक्त्याऽभ्युत्थानासनदानपादप्रमाननमस्कारादिभिरर्चयित्वा यथाविभवशक्ति अन्न-पान-वस्त्रौषधालयादिप्रदानेन संवि. भागः कार्य इति ।"
४ श्रीहरिभद्रसूरिकृतटीकासमलकृतोऽयं ग्रन्थो वाचकवर्यस्य कृतिरिति प्रतिभाति ।
५ नवमाकान्थोत्थानिकायां यशोभद्रचरित्रं वाचकवर्याणां कृतिरित्युल्लेखः, परन्तु प्रमाणानुपलब्धेः स विचारणीयः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org