SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ २१ " सम्यक्त्वज्ञानशीलानि, तपचेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥ १ ॥ जी कूर्ची शिखी मुण्डी, चीवरी नन एव च । तप्यन्नपि तपः कष्टं, मौढ्याद्धिस्रो न सिद्ध्यति ॥ २ ॥ सम्यग्ज्ञानी दयावांस्तु, ध्यानी यस्तप्यते तपः । नमीवरधारी वा स सिद्धयति महामुनिः ॥ ३ ॥” इति वाचकवचनं श्रीउत्तराध्ययनस्य श्री शान्त्याचार्यकृत ( अ० २, पत्रा ० ९३ ) वृत्तौ " उक्तं च वाचकैः शीतवातातपैर्दशैं - मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ १ ॥ " “सूरिभिरुक्तम् धर्मोपकरणमेवैतत्, न तु परिग्रहस्तथा ॥ जन्तवो बहवः सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थं तु, रजोहरणधारणम् ॥ १ ॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसंको (कु) चने चेष्टं तेन पूर्व प्रमार्जनम् ॥ २ ॥ तथा - श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययन सूत्र ( अ० २, पत्रा० ९५ ) वृत्तौ सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च विज्ञेया मुखवत्रिका ॥ ३ ॥ किश्च - भवन्ति जन्तवो यस्मा - दन्नपानेषु केषुचित् । तस्मात् तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥ ४ ॥ अपरश्च सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम् ॥ ५ ॥ शीतवातातपैर्दशै - र्मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति ॥ ६ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy