________________
२२
तस्य त्वग्रहणे यत् स्यात् , क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु ॥७॥"
-श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र( अ० ३, पत्रा० १८० )वृत्ती " आह वाचक:
यावत् परगुणदोषपरिकीर्तने व्यापृतं मनो भवति । तावद् वरं विशुद्ध ध्याने व्यग्रं मनः कर्तुम् ॥ १॥"
--श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र ( अ० ४, पत्रा० १९०-१९१ )वृत्तौ " आह च वाचकः-' इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः' तद्यथा-गार्यः सत्यकिर्तेकर्द्धिगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविद्याबलसम्पन्नोऽपि ।"
-श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनवृत्तौ( अ० ४, पत्रा० १९१ )वृत्ती " उक्तं च वाचकैः__ मङ्गलैः कौतुकैर्योगै-विद्यामन्त्रस्तथाषधः। .. न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि ॥१॥"
-श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र(अ० ४, पत्रा० १९१ )वृत्तौ " वाचकेनाप्युक्तम्
यद् रागदोपवद् वाक्यं, तत्त्वादन्यत्र वर्तते । सावधं वाऽपि यत् सत्यं, तत् सर्वमनृतं विदुः॥१॥"
-तत्त्वार्थाधिगमसत्रस्य(अ० ७, सू०९)श्रीसैद्धसेनीयटीकायाम् श्रीउमास्वातिवाचकानां समयः
जन्ममरणशृङ्खलाविद्यमानभव्यानां मोक्षमार्गोपदेष्टारः सङ्ग्रहीतृष्वनन्यतमा इमे सूरयः कदेदं भूमण्डलं भूषयामासुरिति प्रश्नोऽधुना विचार्यते । सूरिवर्यकृतभाष्यान्तदत्तप्रशस्तित इदं स्पष्टं भवति यदिमे सूरय उच्चनागरशाखीयाः। अस्याः शाखाया उत्पत्तिस्तु श्रीआर्यदिनशिष्यश्रीआर्यशान्तिश्रेणिकसमये । आर्यदिनाः श्रीवीरात् ४२१तमेऽब्दे जाताना आर्येन्द्रदिनानां शिष्याः। अनेन श्रीउमास्वातयः श्रीवीरात् पञ्चमशताब्दीपूर्वकालीना नेत्यनुमीयते । श्रीधर्मसागरगणि विरचितायां श्रीतपागच्छपट्टावलीसूत्रवृत्तौ तु उल्लेखो यथा
___"श्रीआर्यमहागिरिसुशिष्यौ बहुलबलिस्सही यमलभ्रातरौ । तत्र बलिस्सहस्य शिष्यः स्वातिः, तत्त्वार्थादयो ग्रन्थास्तु तत्कृता एव संभाव्यन्ते । तच्छिष्यः श्यामा.
१ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यकृतसिद्धहेमवृत्तौ ( अ०२, पा०२, सू०३९)" उपोमास्वाति सङ्ग्रहीतारः, उपजिनभद्रक्षमाश्रमणं व्याख्यातारः, तस्मादन्ये हीना इत्यर्थः" २इदं च प्रज्ञापनानन्दीपावल्योः अनुगामि। ३ संभावना तु नामसादृश्यभ्रमेण ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org