________________
चार्यः 'प्रज्ञापना कृत् श्रीवीरात् षट्सप्तत्यधिकशतत्रये ( ३७६ ) स्वर्गभाछ । प्रो. पिटर्सनकृते रिपोर्टसंज्ञके पुस्तके उमास्वातिसमयः श्रीवीरात् न शतत्रयीपूर्विक इत्युल्लेखः ।" अतोऽनुमीयते श्रीउमास्वातयः श्रीवीरात् द्विशताब्दीपूर्वकालीनान, श्रीवीरात् प्रायः ७२०तमे वर्षे तेषां प्रादुर्भाव इति युगप्रधानावल्याधारेणानुमीयते ।
दिगम्बरसम्प्रदायानुसारेण श्रीवीरात् ७१४-७९८ पर्यन्तो जीवनकालः श्रीउमास्वातीनाम् ।
यद्यपि श्रीउमास्वातीनां समयमीमांसने एतादृशी भिन्नता वर्तते, तथापीदं सुनिचितं सम्भाव्यते यदेतेषां प्रादुर्भावः श्रीवीरात् द्विशताब्दीत उत्तरकालीनः, नवमशताब्दीतः पूर्वकालीन इति ॥
अथ दिक्पटानुसारी वृत्तान्तो लिख्यते । तत्रास्मिन् ग्रन्थे दत्तानां कचित् पाठसंख्याभिमानां सूत्राणां रचयितारः प्राप्तचरणर्द्धयः पद्मनन्दापराभिधाना उमास्वातयः।
एकदा जैनसिद्धान्तविषयिणी स्वशङ्कां दूरीकर्तुं ते विदेहक्षेत्रवर्तिश्रीमनामान्तरम् न्धरतीर्थकरमुपाजग्मुः । चारणार्द्धिबलात् गगनपथा गच्छतां तेषां
हस्तन्यस्ता मयूरपिच्छिकाऽधः पतिता । तदानीं विष्णुचरणविहारिणः कस्यचिद् गृध्रस्य पिच्छिका गृहीत्वा निजकर्म निर्वाह्य पुरः प्रचेलुः । अतस्तेषां गृध्रपिच्छ इत्यपरा आहा आसीत् । उक्तं च
"तत्त्वार्थसूत्रकर्तारं, गृध्रपिच्छोपलक्षितम् ।
वन्दे गणीन्द्रसंयात-मुमास्वामिमुनीश्वरम् ॥" एतैर्महाशयैः का भूमिः स्वजन्मनाऽलङ्कृतेति न ज्ञायते । परन्तु यदि चरमतीर्थकरश्रीमहावीरनिर्वाणसमयः ख्रिस्तशकात् ५२७ वर्षपूर्वको निश्चीयते तर्हि उमास्वातीनां इ०
स० १३५-२३९ जीवनकालः । जन्मन एकोनविंशतिवर्षेषु व्यतीतेषु जीवनरेखा महसोद्विग्नैः एभिर्महाशयैः श्रीकुन्दकुन्दाचार्यसमीपे दीक्षा कक्षीकता।
ततः पञ्चविंशतिवर्षान्ते च मूरिपदं प्राप्तम् । अनेनाधारेणैषां जीवनकालस्य स्थूलरूपरेखाऽनुमीयते, सा यथावीरात्
ख्रिस्तात् जन्म ७१४तमेऽब्दे
१३५तमेऽन्दे दीक्षा ७३३ ,
१५४ ॥ मूरिपदम् ७५८ ,
१७९ ॥ स्वर्गगमनम् ७९८ ,
२१९ ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org