Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ 265 सूत्र 36] स्वोपज्ञभाष्य-टीकालङ्कृतम् "देशविरतोऽपि ततः, स्थानात् स विशोधिमुत्तमां प्राप्य / स्थानान्तराणि पूर्व-विधिनैव संयात्यनेकानि // 1 // -आर्या क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान् / सततोदयेन भवेत् , तस्य विरमणे सर्वतोऽपि मतिः // 2 // -, छेदोपस्थाप्यं चा-वृत्तं सामायिक चैरित्रं वा / स ततो लभते प्रत्या-ख्यानावरणक्षयोपशमात् // 3 // -, तस्येदानी महाव्रतगुप्तिसमितियुक्तस्य कषायनिग्रहाद् इन्द्रियदमाञ्च निरुद्धाश्रवस्य निर्वेदा दिवैराग्यभावनामिः स्थिरीकृतसंवेगस्य यथोक्तद्वादशप्रकारतपोयोगात् सश्चितानि कर्माणि निर्जरयतः सूत्रानुसाराद् यतमानस्यापि मोहनीयकर्मानुभावात् सङ्क्लेशाद् वा विशोध्या वाऽन्तर्मुहतात परावर्तते / ततः सज्वलनकषायोदयाद् , इन्द्रियविकथाप्रमादाद् , योगदुष्प्रणिधानात् , कुशलेष्वनादराच प्रमत्तसंयतो भवति, तस्मात् सङ्क्लेशाद्धायां वर्तमानः प्रमत्तसंयतः। एते त्रयोऽप्यातध्यायिनो भवन्ति, आर्तध्यानस्वामिन इत्यर्थः / एतदातध्यानमविरतादीनामेव भवति, नाप्रमत्तसंयतादीनामित्यर्थः / तदेतदात नातिसंक्लिष्टकापोतनीलकृष्णलेश्यानुयायि द्रष्टव्यमिति॥३५॥ सम्प्रति रौद्रध्यानं सस्वामिकमभिधित्सुराहसध्यानस्य सूत्रम्-हिंसा-नृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रस्वामिनः मविरतदेशविरतयोः॥९-३६ // भा०–हिंसार्थमनृतवचनार्थं स्तेयार्थ विषयसंरक्षणार्थ च स्मृतिसमन्याहारो रौद्रध्यानं, तदविरतदेशविरतयोरेव भवति // 36 // टी-हिंसा अनृतं स्तेयं विषयसंरक्षणं चेति द्वन्द्वः / ततो द्वन्द्वसमासः / लिङ्गान्यस्योत्सनबहज्ञानामरणदोषाः / तत्र हिंसानन्दादीनां चतुर्णा प्रकाराणामन्यतममेदेऽनवरतमविश्रान्त्या प्रवर्तमानस्य बहुकृत्वः सश्चितदोष उत्सन्नशब्दवाच्यः / यथोत्सनकालान्तरसुपचितमिति / तथा हिंसानन्दादिषु चतुर्ध्वपि प्रवर्तमानस्याभिनिविष्टान्तःकरणस्य बहुदोषता अज्ञानदोषता तेष्वेव हिंसादिषु अधर्मकार्येष्वभ्युदयकार्यबुद्धिव्यपाश्रयस्य चैकतानविधानावलम्बितसंसारमोचकस्येव भवति / अथवा नानाप्रकारेषु हिंसानन्दाद्युपायेषु प्रवर्तमानस्य प्रचण्डक्रोधाविष्टस्य महामोहाभिभूतस्य तीव्रवधबन्धसंक्लिष्टाध्यवसायस्य नानाविधदोषता, पाठान्तरव्याख्यानं तृतीयविकल्पस्य / तुर्यदोषस्तु मरणावस्थायामपि हिंसानन्दादिकृतः स्वल्पोऽपि पचात्तापो यस्य नास्ति तस्यामरणान्तदोषतेति // 36 // "विरतेऽपि' इति हु-पाठः। २'चरित्र' इति ङ-पाठः। 3 'प्रमोदात्' इति उ-पाठः। 4 भाष्यस्य विवरण समुपलभ्यतेऽनन्तरसत्रटीकायाम्। ५'हिंसादिषु' इति च-पाठः।

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392