Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ सूत्रं 49] स्वोपज्ञभाष्य टीकालङ्कृतम् 287 श्रुतं कियत् कस्येत्याह भा०-श्रुतम् / पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कृष्टनाभिन्नाक्षरदशपूर्वधराः / कषायकुशील-निर्ग्रन्थौ चतुर्दशपूर्वधरौ / जघन्येन पुलाकस्य श्रुतमाचारवस्तु / बकुश-कुशील-निर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः / श्रुतापगतः केवली स्नातक इति // .टी.-पुलाक-बकुश-प्रतिसेवनाकुशीला उत्कर्षेण अभिन्नाक्षराणि दश पूर्वाणि धारयन्ति / अभिन्नम्-अन्यूनमेकेनाप्यक्षरेणान्यूनानि दश पूर्वाणीत्यर्थः / कषायकुशीलो निर्ग्रन्थश्च चतुर्दशपूर्वधर उत्कर्षतः / जघन्येन पुलाकस्य नवमपूर्वान्तःपाति तृतीयमाचारवस्तु यावच्छ्रुतम् / बकुश-कुशील-निर्ग्रन्थानामष्टौ प्रवचनमातरः / श्रुतरहितः केवलीति / आंगमस्त्वन्यथा व्यवस्थितः- "पुलाए णं भंते आगर्म मतभदः केवतियं सुयं अहिजि(ज्जे? )जा ? गोयमा ? जण्हणेणं णवमस्स पुव्वस्स तत्तिय आयारवत्थु, उक्कोसेणं नव पुव्वाई संपुण्णाई, बउसपडिसेवणाकुसीला जहण्णेणं अहपवयणमायाओ, उक्कोसेणं चोदस पुवाई अहिलिज्जा कसायकुशीलनिग्गंथा जहण्णेणं अहपवयणमायाओ उक्कोसेणं चोद्दस पुव्वाइं अहिज्जिजा // " सम्प्रति प्रतिसेवनामाश्रित्योच्यते भा–प्रतिसेवना पञ्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति / मैथुनमित्येके / टी-प्रतिसेवना पश्चानामित्यादि / मूलगुणाः प्राणातिपातनिवृत्त्यादयः पञ्च क्षपाभोजनविरतिश्च तानपरेणाभियुज्यमानः सेवते / पराभियोगादित्यस्यैव व्याख्याबलात्कारेण वा परेणाभियुक्तः प्रेरितो यदा भवति तदा प्रवर्तते, न स्वरसत एव / परैस्तु राजादिभिर्बलात्कारेण प्रवर्त्यते / तदेवमन्यतमं मूलगुणं प्रतिसेवमानः पुलाको भवति / मैथुनमित्येके / अपरे आचक्षते-मैथुनमेवेत्थं पराभियोगात् बलात्कारेण सेवा कार्यते स पुलाकः, न प्राणातिपातं सेवमान इति / अत्राप्यन्यथैवागमः- "पुलाए णं भंते ! किं पडिसेवए __ होज्जा अप्पडिसेवए होज्जा ? गोयमा! पडिसेवए, नो अपडिसेवए / जब मतान्तरम् पडिसेवए कि मूलगुणपडिसेवए उत्तरगुणपडिसेवए ? मूलगुणपडिसेवए 1 'आगमरहितः' इति ग-पाठः। 2 कोऽयमागम इति न निणीयते, सदृक् पाठस्तु समस्ति भगवत्यां (श. 25, उ. 6, सू० 757) / 3 छाया-पुलाको भदन्त ! कियत् श्रुतमधीयेत? गौतम | जघन्येन नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कृष्टेन नव पूर्वाणि सम्पूर्णानि, बकुशप्रतिसेवनाकुशीलौ जघन्येन अष्टप्रवचनमातरः, उत्कृष्टेन चतुर्दश पूर्वाणि अधीयेयाताम् / कषायकुशीलनिग्रन्थौ जघन्येन अष्टप्रवचनमातरः. उत्कृष्टेन चतुर्दश पूर्वाणि अधीयेयाताम / 4 'दस पुव्वाई' इति मुद्रिताया भगवत्याम् / 5 प्राय ईदृक् पाठो वर्तते भगवत्यां (श० 25, उ०६, सू०७५५)। 6 पुलाको भदन्त / कि प्रतिसेवको भवेत् अप्रतिसेवको भवेत् / गौतम / प्रतिसेवकः नो अप्रतिसेवकः / यदि प्रति

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392