Book Title: Tattvarthadhigam Sutra Part 02
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ 310 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 10 नान्येन बोधितः / स विविधः-तीर्थकरोहतांतीर्थकरनामकर्मोदयभात्। तथा परः प्रत्येकबुद्धसिद्धः प्रत्येकमेकमात्मानं प्रति केनचिनिमित्तेन सञ्जातजातिस्मरणाद् वल्कलचीरिप्रभृतयः करकरण्डवादयश्च प्रत्येकबुद्धाः / बुद्धबोधितोऽपि द्विविधः / बुद्धेन-ज्ञातसिद्धान्तेन विदितसंसारस्वभावेन बोधितो बुद्धबोधितः। परबोधकः परस्मायुपदेशं ददाति / अपरः पुनः स्वस्मै इष्ट-हित स्वेष्टं तत्करणशीलः स्वेष्टकारी, न परस्मै युगपदुपदिशति किञ्चिदिति चतु र्थो विकल्पः। एते चत्वारोऽपि विकल्पा विकल्पद्वयमनुप्रविशन्ति / तत्र चतुर्विकल्पानां द्वयेजतर्भाव / स्वयम्बुद्धसिद्ध तीर्थकरः प्रत्येकबुद्धश्च बुद्धबोधितसिद्धे परबोधकः स्वेष्टकारी चेति // भा०-ज्ञानम् / अत्र प्रत्युत्पन्नभावप्रज्ञापनीयस्य केवली सिध्यति। पूर्वभावप्रज्ञापनीयो दिविधः-अनन्तरपश्चात्कृतिकश्व परम्परपश्चात्कृतिकश्च अव्यञ्जितेच व्यञ्जिते च / अव्यश्चिते दाभ्यां ज्ञानाभ्यां सिध्यति / त्रिभिश्चतुभिरिति / व्यञ्जिते द्वाभ्यां मति-श्रुताभ्याम् , त्रिभिर्मति-श्रुता-ऽवधिभिः मति-श्रुत-मनःपर्यायैर्वा, चतुभिति-श्रुता-ऽवधि-मन:पर्यायैरिति॥ टी०-ज्ञानमिति / अत्रापि तावेव द्वौ नयौ / तत्र वर्तमानकालग्राहिणः केवलज्ञानवान् सिध्यति / इतरोऽपि द्विविधः। तत्रानन्तरं कदाचित् किञ्चित् ज्ञानं भवति परम्परपश्चात्कृतिकस्य / अव्यञ्जिते व्यञ्जिते चेति चत्वारो विकल्पाः। तत्राव्यञ्जिते द्वे त्रीणि चत्वारि वा ज्ञानानि पश्चात्कृतानि / व्यञ्जिते मते मति-श्रुतवान् मति-श्रुता-ऽवधिमान् मति-श्रुतमनःपर्यायवान् वा मति-श्रुता-ऽवधि-मनःपर्यायवान् सिध्यतीति // भा०–अवगाहना / कः कस्यां शरीरावगाहनायां वर्तमानः सिध्यति / अवगाहना द्विविधा-उत्कृष्टा जघन्या च / उत्कृष्टा पश्चधनुःशतानि धनु:पृथक्त्वेनाभ्यधिकानि / जघन्याः सप्त रत्नयोऽगुलपृथक्त्वहीनाः। एतासु शरीरावगाहनासु सिध्यति पूर्वभावप्रज्ञापनीयस्य / अप्रत्युत्पन्नभावप्रज्ञापनीयस्य तु एतास्वेव यथास्वं त्रिभागहीनासु सिध्यति // टी०-अवगाहनेति / आत्मनः शरीरेऽवगाहः-अनुप्रवेशः। सङ्कोचविकासधर्मत्वादात्मनस्तच्छरीरं किंप्रमाणमिति चिन्त्यतेऽवगाहना चरमशरीरे। साऽवगाहना द्विधाउत्कृष्टा जघन्या च। तत्रोत्कृष्टा पश्च धनुःशतानि धनुःपृथक्त्वेनाभ्यधिकानि, १'परस्मायुगपदिशति ' इति च-ज-पाठः। 2 'पृथक्त्वेन हीनाः ' इति घ-पाठः।

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392