Book Title: Tattvartha Vrutti
Author(s): Bhaskarnandi, Jinmati Mata
Publisher: Panchulal Jain
View full book text
________________
५७२ ]
सुखबोधायां तत्त्वार्थवृत्ती संसारिणस्त्रसस्थावराः ।१२। पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ।१३। द्वीन्द्रियादयस्त्रसाः ।१४। पंचेन्द्रियाणि ।१५। द्विविधानि ।१६। निर्वृत्युपकरणे द्रव्येन्द्रियम् ।१७। लब्ब्युपयोगी भावेन्द्रियम् ।१८। स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ।१९। स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ।२०। श्रु तमनिन्द्रियस्य ।२१। वनस्पत्यन्तानामेकम् ।२२। क्रिमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ।२३। संशिनः समनस्काः ।२४। विग्रहगतौ कर्मयोगः १२५॥ अनुश्रेणि गतिः ।२६। अविग्रहा जीवस्य ।२७। विग्रहवती च संसारिणः प्राक्चतुर्यः ।२८। एकसमयाऽविग्रहा ।२६। एकं द्वौ त्रीन्याऽनाहारक: ।३०। सम्मूर्छनगर्भोषपादा जन्म ।३१। सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशश्तद्योनयः ।३२। जरायुजाण्डजपोतानां गर्भः ।३३। देवनारकाणामुपपादः ।३४। शेषाणां सम्मूर्छनम् ।३५॥ औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ।३६। परं परं सूक्ष्मम् ।३७। प्रदेशतोऽसंखये यगुणं प्राक्तजसात् ।३८। अनंतगुणे परे ।३९। अप्रतिघाते ।४०॥ अनादिसम्बन्धे च ।४१। सर्वस्य ।४२। तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्व्यः ।४३। निरुपभोगमन्त्यम् ।४४। गर्भसम्मूर्च्छनजमाचम् ।४५। औपपादिकं वैक्रियिकम् ।४६। लब्धिप्रत्ययं च ।४७। तैजसमपि ।४८। शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव १४६। नारकसम्मूछिनो नपुंसकानि ।५०। न देवाः ।५१। शेषास्त्रिवेदाः ।५२। औपपादिकचरमोत्तमदेहाऽसंखय यवर्षायुषोऽनपवायुषः ।५३।
॥ इति तत्त्वार्थसूत्रे द्वितीयोऽध्यायः ।।
रत्नशर्करावालुकापंकधूमतमोमहातमःप्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताऽधोऽधः ।। तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् ।२। नारका नित्याऽशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ।। परस्परोदीरितदुःखाः ।४। संक्लिष्टाऽसुरोदीरितदुःखाश्च प्राक्चतुर्थ्याः ।। तेष्वेक त्रि सप्त दश सप्तदश: द्वाविंशति त्रयस्त्रिशत्सागरोपमा सत्त्वानां परा स्थितिः।६। जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ।७। द्विढिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ।। तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ।।। भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ।१०। तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषधनीलरुक्मिशिखरिणो वर्षध पर्वताः ।११। हेमार्जुनतपनीयवैडूर्यरजतहेम

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628